________________
३०२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः।
गुणग्रन्थे
(प्र . टी . ) द्वीन्द्रियग्राह्यगुणानाह--'सङ्ख्यादि' रिति । बाह्यद्वीन्द्रियग्राह्यजातिमद्गुणत्वं द्वीन्द्रियमाह्यगुणत्वमित्यर्थः । अन्वर्था चेयं सम्ज्ञा द्वाभ्यां चक्षु. स्त्वग्भ्यां ग्रहणयोग्यत्वात्।
अथ स्पर्शान्तशब्दकाः। (का ० ) बाबैकैकेन्द्रियग्राह्या:(मु.) बाह्येति । रूपादीनां चक्षुरादिग्राह्यत्वात् ॥
(प्र . टी . ) बाबैकैकेन्द्रियग्राह्यगुणानाह-परममूले “अथे"ति । स्पर्शान्तशब्दकाः = रूपरसगन्धस्पर्शब्दा इत्यर्थः । "बाह्ये"ति--बाबैरेकैकेन्द्रियैश्चक्षुरादिभिरेव ग्राह्याः प्रत्यक्षयोग्याः। तेन नातीन्द्रियरूपादावतिम्याप्तिः । तथाच चक्षुस्त्वगुभयाग्राह्यबहिरिन्द्रियग्राह्यगुणसमवेतजातिमत्त्वं साधर्म्यमिति निष्कर्षः । (का . ) गुरुत्वादृष्टभावनाः ॥१३॥
अतीन्द्रिया, विभूनां तु ये स्युर्वैशेषिका गुणाः ।
अकारणगुणोत्पन्ना एते तु परिकीर्तिताः ॥६॥ (मु.) विभूनामिति । बुद्धिसुखदुःनेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा इत्यर्थः। अकारणेति । कारणगुणेन कार्य ये गुणा उत्पद्यन्ते ते कारणगुणपूर्वका रूपादयो वक्ष्यन्ते । बुद्धयादयस्तु न तादृशा आत्मादेः कारणाभावत् ॥६०-६४॥
(प्र० टी० ) अतीन्द्रियगुणानाह-परममूले-“गुरुत्वे" ति । गुरुत्वम् = आयपतनासमवायिकारणम्, अदृष्टम् - धर्माधर्मों, भावना= वेगभिन्नसंस्कारौ अर्थात्-भावनापदमजहत्स्वार्थलक्षणयोभयबोधकम्, तेन स्थितिस्थापकसंस्कारस्यापि ग्रहणम् । एतेऽतीन्द्रिया: = इन्द्रियागोचरा इत्यर्थः । अकारगुणोत्पन्नगुणानाह-- परममूने “बुद्धी" त्यादिना । "अकारणेती" ति । अयमस्यार्थ:-कारणगुणाः = समवायिकारणसमवेतगुणैःउत्पश्चाः कारणगुणोत्पन्नाः, न कारणगुणोत्पन्ना अकारणगुणोत्पन्नाः, परिकीर्तिताः = उक्काः । इत्थञ्च* स्वाश्रयसमवायिसमवेतगुणजन्यस्वं कारणगुणोत्पन्नत्वं, तद्भिन्नमकारणगुणोत्पन्नत्वं बुद्धयादिशब्दान्तानां साधर्म्यम् । कुतो न बुद्ध्यादयो रूपादिवत् समवायिकारणसमवेतगुणैरुत्पद्यन्त इति शङ्कायां बीजं दर्शयति-"आत्मादे"रिति । बुद्धयादीनामाश्रय आत्मादिनित्योऽस्ति अत एवैतेऽ कारणगुणोत्पन्ना: नत्वेवंरूपाचा इति भावः । उक्तञ्च महर्षिणा "कारणगुणपूर्वकः कार्यगुणो दृष्ट" इति । ( वै० २ । । । २०) ॥
* स्वं घटरूपं, तदाश्रयो घटः, तत्समवायिनौ कपालौ, तत्समवेतं कपालरूपं, तज्जन्यवामित्यर्थः ।