________________
सामान्यगुणाः, द्वीन्द्रियग्राह्याश्च ।
पूर्वोक्कमेव” केचित्तुमतीयलक्षणे पदकृत्यम् । द्रव्यकर्मणोरवृत्तिगुणत्वजातिरपि साचसंख्यादिसामान्यगुणेपि वर्तते तत्रातिब्याप्तिवारणार्थ द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तीति विशेषणदलम्-तथाच द्रव्यविभाजकोपाधिद्वयस्य पृथिवीत्त्वजसत्त्वस्वरूपस्य समानाधिकरणो गुण स्तनवृत्तित्वमेवगुणत्वस्य नावृत्तित्त्वमिति नातिव्याप्तिरिति भावः । इदन्तु भवत्कृतलक्षणसमन्वयानुसारेण फलम् । मन्मतेतु द्रव्यविभाज कोपाधिद्वयं पृथिवीजलपरमाणुवृत्तिपृथिवीत्वं जनस्वंच तत्समानाधिकरणाणूकरूपं द्रव्यं परमाणुकर्मच तत्रावृत्तिजातिर्गुणत्वरूपा साच विशेषगुणेषु वर्त्तते, इति जक्षणसमन्वयः । तत्र विशेषणानुपदाने द्रव्यकर्मावृत्तिगुणत्त्वस्य संख्यादिसामान्यगुणेषु सत्वादतिव्याप्तिरतस्तदुपात्तम् । तथाच तादृशोपाधिद्वयसमानाधिकरणे यथा द्रव्यकर्मणी तथागुणोपि समानाधिकरणस्तन गुणत्त्वं जातेरवृत्तित्वाभावाचातिव्याप्तिः । विशेष्यानुपादाने-द्रव्यविभाजकोपाधिद्वयस्य पृथिवीत्वजलत्त्वरूपस्य समानाधिकरणे गुणेऽवत्तिजातिभ्यत्वकर्मत्वच तद्वतोव्यकर्मणोरतिव्याप्तिः । तदुपादानेच तादृशम्यत्वकर्मस्वयोव्यकर्मावृत्तिस्वाभावान्न द्रव्यकर्मणोरतिव्याप्तिरिति भावः। __सामान्यगुणत्वं च-रूपस्पर्शान्यत्वे सति द्रव्यविभाजकोपाधिव्याप्यतावच्छे. दक--संयोगविभागवेगद्रवत्वावृत्तिजातिशून्यगुणत्वम् । द्रव्यविभाजकोपाधिः पृथि वीत्वादिस्तब्याप्यतावच्छेदिका-गन्धत्वादिजातिस्तच्छून्यत्वस्य संख्यादिगुणेसत्वालपणसमन्वयः। (का०) सङ्ख्यादिरपरत्वान्तो द्रवोऽसांसिद्धिकस्तथा ॥३१॥
गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिताः । ___(मु०) सङ्ख्यादिरिति । सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वानीत्यर्थः ॥
(प्र० टी० ) समान्यगुणानाह–'सङ्ख्यादि'रिति । सङ्ख्या प्राविर्यस्य अपरस्वमन्ते यस्येति समासशक्कया परिमाणपरत्वयोरेव ग्रहणं स्यादिति भ्रमवारणाय आदिपदग्राह्यगुणान् विशिष्य दर्शयति मूले 'सङ्ख्ये'त्यादिना । द्रवोन्द्रवत्वम् । असांसिद्धिको नैमित्तिकः । रूपस्पर्शान्यस्वे सति द्रव्यविभाजकोपाधिव्याप्यतावच्छेदकसंयोगविभागवेगद्वत्वाऽवृत्तिजातिशून्यगुणत्वं सामान्यगुणत्वमिति, वन्यायनयानुसारिणः। ऋजवस्तु--सामान्याय-स्वाश्रयसाधाय, गुणाः न स्वाश्रयविशे षाय येते तथेति विवृण्वते।
(का. ) संख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च ॥१२॥ एते तु द्वीन्द्रियग्राह्या:__(मु० ) द्वीन्द्रियेति । चक्षुषा त्वचाऽपि ग्रहणयोग्यत्वात् ।