________________
३७० सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः। गुणमन्य ( ५ । ४ । ३४ ) इत्यनेन स्वार्थे ठक् । “भावनान्यो" यो वायुवृत्तिस्पर्शवृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वनैमित्तिकद्रव्यत्वान्यगुणत्वमिति विशेषगुणत्वम् । केचित्तु विशेषगुणत्वं नाम "द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तिद्रव्यकर्माऽवृ. त्तिजातिमत्व” मिति लक्षयन्ति । तत्र द्रव्यस्य विभाजकमुपाधिद्वयम् पृथिवीत्वजलस्वादि, तत्समानाधिकरणः संयोगसङ्ख्यादिः, तत्रावृत्तिः अविद्यमाना तथा द्रव्यकर्मणोरप्यविद्यमाना या रूपादिकतिपयगुणेषु विद्यमाना जातिस्तादृशजातिमत्त्वं पूर्वोक्तविशेषगुणेष्वनुगतमित्याहुः । सर्वोऽयं कठिनो मार्ग: । वयन्तु-"विशेषो व्यवच्छेदः तस्मै प्रभवन्ति ये ते “वैशेषिकाः" गुणा रूपादयः । ते हि स्वाश्रयमितरस्माद्वयव च्छिन्दन्ति न तथा सङ्ख्यादयः तेषां स्वतोविशेषाभावात् , यस्तु तेषां विशेषः स माश्रयविशेषकृत एवेति' कन्दलीकारमार्गमेव रोचयामहे । ___ श्रीस्वामि विश्वेश्वराश्रमपादास्तु-विशेषगुणत्वञ्च, भावनाऽन्यो यो वायुवृत्तिस्पर्शावृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्त्वाजलद्रवत्वान्यगुणत्वम् , जात्यादावतिव्याप्तिवारणाय विशेष्यदलम् अन्यथा सामान्यत्वधर्मस्य भावनान्यत्वे सति वायुवृत्तिर्योऽनुष्णाशीतस्पर्शस्तदवृत्तित्वात्तत्समवायी सामान्य नास्तीति तदन्यत्त्वसत्त्वाद तिव्याप्तिः स्यात् सामान्यत्त्वस्योपाधित्वेन तत्समवायाप्रसिद्धयासामान्यं समवायिभिन्नमिति भावः। गुरुत्वाजलद्रवस्वान्यगुणत्वस्य संयोगादावपि सत्त्वादतिव्याप्तिः तद्वारणाय सत्यन्तं विशेषणदलम् , तथाच भावनान्यवायुवृत्तिस्पर्शावृत्तिधर्मः संयोगत्वन्तत्समवायित्वासंयोगस्य तदन्यत्वाभावानातिव्याप्तिः । गुरुत्वनैमित्तिकद्वत्वयोरतिव्याप्ति:, तयोरपि भावनान्यवायुवृत्तिस्पर्शावृत्तिर्योधर्मो गुरुत्वत्वनैमित्तिकद्रवत्वत्वरूपस्तत्समवा. यिभिन्नत्वे सतिगुणत्वस्यसत्त्वात् । गुरुत्वत्वऽनैमित्तिकद्रवत्त्वयोरप्युपाधिश्वेन तयो:सम वायाप्रसिद्धया समवायिभिन्नत्वमित्यतस्तत्रातिव्याप्तिवारणार्थ-गुरुत्त्वाजलद्रवत्वान्येति, अत्रापि सांसिद्धिकद्रवत्वेऽव्याप्तिवारणार्थम् अजलेतिपदम् । भावनान्यत्वानुपा दाने भावनायामव्यप्तिः वायुवृत्तिस्पर्शावृत्तियों धर्मो भावनात्वरूपस्तत्समवायित्वेन समवायिभिन्नत्त्वाभावात् । तदुपदानेच भावनात्वसमवायिन्याभावनाया भावनान्यस्वाभावान्नाव्याप्तिः, वायुवृत्तिस्पर्शावृत्तिबुद्धिवेच्छात्वादिधर्मसमवायिभिन्नत्वसत्वादि ति भाव: । स्पर्शावृत्तिपदानुपादाने स्पर्शेऽव्याप्तिः, वायुवृत्तिसत्तारूपधर्मसमवायित्वेनसमवायिभिन्नत्वाभावात् । तदुपादाने चसत्तारूपधर्मस्य स्पर्शावृत्तित्वाभावाद्बुद्धि वेछात्वादिरूपधर्ममादाय लक्षणसमन्वयः। स्पर्शच तादृशधर्मसमवायिभिन्नत्वसत्वादिति भावः । पृथिवीजलतेजस्सु वृत्तयो ये गन्धत्त्वरसत्त्वरूपत्वधर्मसमवायिनो गन्धरसरूपात्मकास्तेच समवायिभ्यो भिन्ना न सन्तीतितेष्वव्याप्तिरतो वायुवृत्तीति समवायि विशेषणम् नतु स्पर्शविशेषणमिति मेप्रतिभाति, “तथाच भावनान्ये ये वायुवृत्तयः स्पर्शावत्तिधर्मसमवायिन स्तेभ्योऽन्ये ये गुरुत्वाजलद्वत्त्वान्यगुणास्ते विशेषगुणाः । इत्यन्वयः । परन्तु भावानान्ये, इति धर्मसमवायिनः । इत्यत्र विशेषणम् । फलन्तु तस्य