________________
मूर्ताऽमूर्तादिगुणप्रपत्रः।
निष्कृष्टं लक्षणन्तु–'मूर्ताऽवृत्तिसङ्ख्यादिपञ्चकभिन्नगुणत्वममूर्त्तगुणत्व' मिति बोध्यम् । (का०) सङ्ख्यादयो विभागान्ता उभयेषां गुणा मताः॥८॥ (मु०) उभयेषामिति । मूर्तामूर्तगुणा इत्यर्थः ॥ ८६-८८ ॥
(प्र० टी० ) मूर्ताऽमूर्त्तगुणानाह - परममूले “सङ्ख्यादय" इति । सङ्ख्यापरिमाणे पृथक्त्वसंयोगविभागा मूर्ताऽमूर्त्तगुणा इत्यर्थ इत्याशयेनाह-मूले "उभयेषा"मिति । इदमेव स्पष्टं साधर्म्यम् । (का०) संयोगश्च विभागश्च सङ्ख्या द्वित्वादिकास्तथा ।
द्विपृथक्त्वादयस्तद्वदेतेऽनेकाभिता गुणाः ॥८६॥ (मु०) अनेकाश्रिता इति । संयोगविभागद्वित्वादीनि द्विवृत्तीनि । त्रित्वचतुष्ट्वादिकं त्रिचतुरादिवृत्तीति बोध्यम् ॥८६॥
(प्र० टी० ) अनेकवृत्तिगुणानाह-परममूले “संयोगश्चे"ति । "अनेका.. श्रिता" इति । अत्र न एकाश्रिता अनेकाश्रिता इति समासो न साधुः संयोगादीनां द्विवृत्तीनामपि तदन्तर्गतैकाश्रितत्वसत्त्वात् । किन्तु-न एकमनेकं, अनेकमाश्रिता अनेकाभिता इति, संयोगादीनां द्विवृत्तित्वात् । “द्विपृथक्त्वादय" इति द्वित्वादिसमानाधिकरणं पृथक्त्वमित्यर्थः। तथाच 'अनेकाश्रितगुणत्वं संयोगादीनां साधर्म्य' मिति फलितम् । द्विवृत्तीनि-पदार्थद्वयवृत्तीनि । स्पष्टमन्यत् ।
(का०) अतः शेषगुणाः सर्वे मता एकैकवृत्तयः । (मु०) रूपरसगन्धस्पर्शकत्वपरिमाणैकपृथक्त्वपरत्वापरत्वबुद्धिसु. खदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्काराऽदृष्टशब्दा इत्यर्थः ।
(प्र० टी० ) एकवृत्तिगुणानाह-"प्रत" इति परममूले । स्पष्टं विवृणोति"रूपादी"ति । कारिकाक्षरार्थस्तु-अतोऽस्मात् संयोगादिपञ्चकात् शेषा अवशिष्टा ये गुणा रूपादयस्ते एकैकवृत्तयो मता इष्टा इति । "स्वाश्रयान्योन्याभावव्यापकात्यन्ताभावप्रतियोगित्वमेकैकवृत्तिगुणत्व"मिति फलितलक्षणम् । (का०) बुद्धयादिषद्कं स्पर्शान्ताः स्नेहा सांसिद्धिको द्रवः३०॥
अदृष्टभावनाशन्दा अमी वैशेषिका गुणाः (मु०) बुद्धिसुखदुःखेच्छाद्वेषप्रयत्ना इत्यर्थः । स्पर्शान्ताः रूपरसगन्धस्पर्शा इत्यर्थः। द्रवो द्रवत्वम् । वैशेषिका इति । विशेषा एव वैशेषिकाः। खार्थे ठक् । विशेषगुणा इत्यर्थः॥ __ (प्र० टी० ) विशेषगुणानाह–'बुद्धयादी'ति । एतस्य विवरणं "बुद्धिसुखे"ति। परममूले "अदृष्टे"ति । अदृष्टं धर्माधौं । भावनातदाख्य: संस्कारः "ममी" इति षोडशसङ्ख्याः । 'वैशेषिका' इत्यत्र "विनयादिभ्यभ्यष्ठक"