________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः। गुणग्रन्थे ।
कर्मत्वं वा न द्रव्यत्वनिरूपितब्यापकताया अवच्छेदकम् । द्रव्यत्वे विद्यमानो द्रव्यत्वत्वरूपो धर्म: सामान्ये च वर्तमानः सामान्यत्वरूपो धर्मो जातिरूप एव नास्ति किन्तू. पाधिरूपोऽस्ति, जातिभिन्नो धर्म उपाधिरित्यवोचाम । एवं निष्कृष्टलक्षणे जातिपदनिवेशेन द्रव्यत्वत्वसामान्यत्वयोरुभयोरुभयोर्वारणं फलमिति बोध्यम् । .
(मु०) निर्गुणा इति । यद्यपि निर्गुणत्वं कर्मादावपि तथापि सामा. न्यवत्त्वे सति कर्मान्यत्वे च सति निर्गुणत्वं बोध्यम् । जात्यादीनां न सामान्यवत्वं, कर्मणो न कर्मान्यत्वे, द्रव्यस्य न निर्गुणत्वमिति तत्र नातिव्याप्तिः। निष्क्रिया इति स्वरूपकथनं नतु लक्षणं गगनादावतिव्याप्तः॥
(प्र० टी० ) “निर्गुणा" इत्यस्य तत्त्वं वक्तुमाह-"निर्गुणा" इति । अतिव्याप्तिं शङ्कमानस्तत्परिहाराय विवृणोति-"यद्यपी"त्यादिना । निर्गुणत्वम् गुणात्यन्ताभाववत्वम् । कर्मादावित्यादिना समान्यादिपरिग्रहः । स्वरूपकथनमितिवस्तुतो गुणे क्रिया नास्तीति स्फुटप्रतिपत्त्यर्थमित्यर्थः । स्पष्टमन्यत्। भवति चात्र पारमर्ष सूत्रम्-"द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्" इति (वै० अ० १ । श्रा० १ । सू० १६ ) (का०) रूपं रसः स्पर्शगन्धौ परत्वमपरत्वकम् ॥८६॥
द्रवत्वं स्नेहवेगाश्च मता मूर्तगुणा अमी। (मु०) मूर्तगुणा इति। अत्र वेगेन स्थितिस्थापकोऽप्युपलक्षणीयाः । अमूर्तेषु न वर्तन्त इत्यर्थः । लक्षणं तु तावदन्यान्यत्वम् । एवमग्रेऽपि ॥
(प्र० टी० ) इदानीं गुणानां साधर्म्य वक्तुमथवाऽवान्तरविशेषं वक्तुमुपक्रमते "रूप"मित्यादिना । “मूर्त्तगुणा" इतीति । ननु-मूर्त्तगुणत्वं मूर्त्तवृत्तिगुणत्वमित्येवार्थ: स्यात्, तथासति तत् सङ्ख्यादावप्यतिव्याप्तमित्याह-"अमूर्तेवि"ति । तथाच अमूर्तावृत्तिगुणत्वं रूपादिवेगान्तानां साधर्म्यमित्यर्थः । “लक्षणन्त्वि"ति-रूपरसाद्यन्यतमत्वं मूर्तगुणत्वमित्यर्थः । विश्ववृत्तिसङ्ख्यादिपञ्चकभिनगुणत्वं 'मूर्त्तगुणत्व'मिति निष्कृष्टं लक्षणम् । प्रदर्शितं प्रकारं वक्ष्यमाणग्रन्थेप्यतिदिशति-"एवमि"ति। (का०) धर्माधर्मों भावना च शब्दो बुद्ध्यादयोऽपि च ॥ ८७॥
एतेऽमूर्तगुणाः सर्वे विद्वद्भिः परिकीर्तिताः। (मु०) अमूर्तगुणा इति मूर्तेषु न वर्तन्त इत्यर्थः।
(प्र० टी० ) अमूर्तगुणानाह- "धर्माधर्मा"विति । परममूले 'एतेऽमूर्तगुणा' इत्यत्राकारप्रश्लेषो बोध्य इत्याशयेनाह मुक्तावल्यां "मूर्तेषु न वतन्त इत्यर्थ" इति । एवञ्च-"मूर्ताऽवृत्तिगुणत्वं धर्मादीनां साधर्म्यम्" इत्युक्तं भवति ।