________________
मनसोऽणुस्वम् ।
३६७
उत्तरयति-"इदमि"ति । द्रव्यकर्माभिन्नत्वे सतीत्यादिग्रन्थो द्रव्यस्वजातिसाधकग्रन्थवद् व्याख्येयः । क्वचित् -"किञ्चिद्धविच्छेद्या, निरवच्छेद्यकारणताया अभावादिति पाठान्तरम्, फले न विशेषः । तदर्थस्तु-किञ्चिद्धर्मनिष्ठावच्छेदकता निरूपके. त्यादि|भ्यः। ननु-रूपत्वस्य सत्ताया वा गुणनिष्ठकारणताया अवच्छेदकत्वमस्तु इत्याशङ्कयाह-"नहीं"ति । अन्यूनानतिरिक्तवृत्तित्वमवच्छेदकत्वम् । यस न्यूनदेशवृत्ति नाप्यधिकदेशवृत्ति किन्तु लक्ष्यताकारणतादिधर्मसमनियतवृत्ति भवति तदेव लच्यतावच्छेदकं कारणतावच्छेदकं वोच्यते । प्रकृते रूपत्वं न गुणनिष्ठकारणतासमनियतम्, न्यूनवृत्तित्वात् । नहि रूपत्वं रसायनुगतो धर्मः, किन्तु शुक्लाद्यनुगत एव । नच सत्ता गुणनिष्ठकारणतासमनियता तस्या द्रव्ये कर्मणि चापि वर्तमानाया अधिकदेशवृत्तित्वात् , अतश्चतुर्विंशतिगुणनिष्ठं यत् किमप्यनुगतं तदेव गुणत्वम् गुणनिष्ठकारणतावच्छेदको धर्म इति भावः । रूपत्वादिकमित्यादिना रसत्वादिपरिग्रहः ।
इदन्तु बोध्यम्-यद्यपि गुणत्वजातौ प्रत्यक्षमेव प्रमाणम् रूपादिषु संयु. क्रसमवेतसमवायेन गुणत्वप्रत्यक्षसम्भवात् । तथाप्यतीन्द्रियरूपादौ तत्प्रत्यक्षासम्भवेन तत्साधारण्यं गुणत्वस्य न घटत इत्यनुमानमपि प्रदर्शितम् ।
(मु०) द्रव्याश्रिता इति । यद्यपि द्रव्याश्रितत्वं न लक्षणं कर्मादावतिव्याप्तेस्तथापि द्रव्यत्वव्यापकतावच्छेदकसत्ताभिन्नजातिमत्त्वं तदर्थः। भवति हि गुणत्वं द्रव्यत्वव्यापकतावच्छेदकं तद्वत्ता च गुणानामिति ॥ द्रव्यत्त्वं कर्मत्वं वा न द्रव्यत्वव्यापकतावच्छेदकं गगनादौ द्रव्यकर्मणोर. भावत् । द्रव्यत्वत्वं सामान्यत्वदिकं वा न जातिरिति तद्वयदासः।
(प्र० टी० ) कारिकास्थं " द्रव्याश्रिता" इति पदमभिसन्धिमुद्रया व्याख्यातुं प्रतीकमादत्ते-“द्रव्याश्रिता" इति । 'कर्मादावि'ति--आदिना सामान्यपरिग्रहः गुणे कर्मणि च द्रव्याश्रितत्वं समानो धर्म इति भावः । विवक्षयाऽतिव्याप्ति परिहरति-'तथापी'ति । 'द्रव्यत्वे ति-द्रव्यत्वनिरूपिता या गुणनिष्ठा व्यापकता, तादृशव्यापकताया अवच्छेदिका या सत्ताभिन्ना जातिः अर्थात् गुणत्वं, तादृशगुणत्वजातिमत्वं सर्वेषु रूपादिगुणेष्वेवास्ति नतु कर्मणीति नातिव्याप्तिः । लक्ष्ये लक्षणसत्त्वं प्रतिपादयति-"भवति ही" ति । द्रव्यत्वव्यापकतावच्छेदकेप्यस्य फलमाह -"द्रव्यत्व" मिति ।
अयमाशयः-द्रव्यत्वरूपःकर्मत्वरूपो वा धर्मो द्रव्यत्वव्यापकतावच्छेदको न भवितुमर्हति । यदि सर्वद्रव्येषु द्रव्यं वा कर्म वा भवेत् तदा द्रव्यत्वनिरूपिता व्यापकता द्रव्येषु, कर्मसु वोन्नीयेत, तथासति तत्र द्रव्ये विद्यमानो द्रव्यत्वरूपो धर्मः, कर्मणि विद्यमानः कर्मत्वरूपो वा धर्मोऽपि व्यापकतावच्छेदको भवेत्, नयाकाशादिपञ्चद्रव्ये किमपि द्रव्यं समवेतं = समवायसम्बन्धेन वर्तमानं भवति, नापि चाकाशादिचतुर्यु किमपि कर्म वर्त्तते “विभौ क्रिया न भवति' इति नियमात्, तस्मात् द्रव्यत्वं