________________
३६६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः।
उपमन्ये
त्यक्षमित्यर्थः समाधत्ते--"मनस" इति अत्यन्तं वेगशालि मनः, तथाच नानुपपत्ति
नावधानभाजां नानाज्ञानोत्पादने इति भावः । ननु--युगपदनेकज्ञानोत्पत्तिस्वीकारे सिद्धान्तविरोध इत्याशङ्कयाह--"उत्पलशतपत्रभेदादि"ति । उत्पलम् कमलम् । तथा च भ्रान्तोऽसौ यौगपद्यप्रत्ययः, ज्ञानन्त्वेकस्मिन् काले एकमेवोत्पद्यत इति न सिद्धान्तविरोध इति भाव: । पुनः शङ्कते--"नचे"ति । “संकोचे"ति--मनसः शङ्कोचे एकेन्द्रियमानसम्बन्धादेकमेव ज्ञानम् , विकाशे तु नानेन्द्रियैर्मनसः सम्बन्धायुगपन्नानाज्ञानानामुत्पत्तिरिति भावः । समाधत्ते--"नानावयवे"ति--लाघवेन निर्वाहे सति निष्फलं गौरवं नादियत इति भावः । अधिकमन्यत्रोक्तमित्याह--- "सक्षेप" इति ।
इति द्रव्यपदार्थों व्याख्यातः ।
(का०) अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिाया गुणाः ।
(मु०) द्रव्यं निरूप्य गुणान्निरूपयति-गुणत्वजातौ किं मानमिति चेत्, इदम्-द्रव्यकर्मभिन्ने सामान्यवति या कारणता सा किंचिद्धर्मावच्छिन्ना निरवच्छिन्नकारणताया असंभवात् । नहि रूपत्वादिकं सत्ता वा तत्रावच्छेदिका न्यूनातिरिक्तदेशवृत्तित्वात् । अतश्चतुर्विंशत्यनुगतं किंचिद्वाच्यं तदेव गुणत्वमिति सिद्धम् ।
(प्र० टी० ) निरूपितं द्रव्यम्, सम्प्रति गुणनिरूपणावसर इत्याह-"द्रव्यमि"ति । "द्रव्यनिरूपणोत्तरकालीनद्रव्यनिरूपणसमानकर्तृकगुणकर्मनिरूपणानुकूलकृतिमान् ग्रन्थकार” इति शाब्दबोधः । “अथेति द्रव्यनिरूपणान्तर्यमाह । *'द्रव्याश्रितः' इति । द्रव्याश्रिता: द्रव्यमानाधाराः, निर्गुणाः गुणरहिताः, निष्क्रिया:-कर्महीनाश्च बोध्याः । द्रव्याश्रितत्वञ्च द्रव्यत्वव्यापकतावच्छेदकसत्तान्यजातिमत्त्वम् । निर्गुणत्वं सामान्यवत्वे कर्मान्यत्वे च सति गुणशून्यस्वम् । निष्कियत्वं समान्यवत्त्वे सति कर्मान्यत्वे सति कर्मवदवृत्तिपदार्थविभाजकोपाधिमविमिति सामान्यतो गुणस्य लक्षणत्रयं फलितमिति भावः । समष्ट्या एकं लक्षणन्तु -'सामान्यवत्त्वे सति कर्मान्यत्वे च सति निर्गुणत्वं गुणसामान्यलक्षण'मिति बोध्यम् , निर्गुणत्वमात्रोक्तो कर्मण्यतिव्याप्तिः तद्वारणाय "कर्मान्यत्व" इत्युक्तम् । तावन्मात्रोक्तावपि सामान्येऽतिव्याप्तिवारणाय “सामान्यवत्त्वे सती"त्युक्तम् । निर्गुणत्वानुक्तौ परिशिष्टोक्तौ द्रव्येऽतिव्याप्तिः स्यात् तद्वारणाय "निर्गुणत्व"मिति ।
द्रव्यत्वजाताविव गुणत्वजातौ मानं पृच्छति-"गुणत्वजाता"विति । एतेन "गुणत्वजातिसिद्धिरने वक्ष्यते” इति पूर्वोक्ता प्रतिज्ञापि पालिता भवतीति भावः ।
* परेपि 'द्रव्याश्रया निर्गुणा गुणा' ( तत्त्वार्थसूत्रम् ५॥४१ ) इति लक्षयन्ति। १