________________
गुणसामान्यखखणविचारः।
कारश्च-सुखदुःखाचसमवायिकारणं संयोग: कचिदाश्रितः मुख्यसम्बन्धत्वासमवायवदिति यश्च तस्याश्रयः तदेव मनः ।
(मु०.) तत्र मनसोऽणुत्वे प्रमाणमाह । अयोगपद्यादिति । शानानां चाक्षुषरासनादीनामयोगपद्यमेककालोत्पत्तिर्नास्तीत्यनुभवसिद्धम् । तत्र नानेन्द्रियाणां सत्यपि विषयसंनिधाने यत्सम्बन्धादेकेनेन्द्रियेण ज्ञानमुत्पद्यते यदसम्बन्धाच्च परैर्ज्ञानं नोत्पद्यते तन्मनसो विभुत्वे चासन्निधानं न सम्भवतीति न विभु मनः। ___(प्र० टी० ) केचिन्मनसो वैभवम्, अन्य मध्यमपरिमाणञ्चाचक्षते तेषां मतं ग्युदस्यन्निव मनसोऽणुत्वे प्रमाणं वक्तुं भूमिकामाह-तत्रे'ति । 'अयोगपद्यादिति मनसोऽणुत्वे हेतुमाह। ज्ञानानामिति कारिकापदं विवृणोति-"चाक्षुषे" त्यादिना । उनञ्च परमर्षिणा-"युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति" (न्या० ।।। १६) कणादेनापि मुनिना-“तदभावादणु मनः" (वै० ७ । १ । २३) इति । “यत्सम्बन्धादि"ति- श्रुतिरपि-"अन्यत्रमना अभूवम् नाश्री• पम्, अन्यत्रमना अभूवं नाद्राक्ष"मित्याह छ । शिष्टं स्पष्टम् ।
(मु०) नच तदानीमदृष्टविशेषोद्वेधिकविलम्बादेव तज्ज्ञानविलम्ब इति वाच्म्' तथा सति चक्षुरादीनामप्यकल्पनापत्तेः ॥ नच दीर्घशष्कुलीभक्षणादौ नानावधानभाजां च कथमेकदा नानेन्द्रियजन्यज्ञानमिति वाच्म्, मनसोऽतिलाघवात्त्वरया नानेन्द्रियसम्बन्धान्नानाजानोत्पत्तेः । उत्पलशतपत्रभेदादिवद्योगपद्यप्रत्ययस्य भ्रान्तत्वात् ॥ नच मनसः संकोचविकाशशालित्वादुभयोपपत्तिरस्त्विति वाच्म्, नानावयवतन्नाशादिकल्पने गौरवालाघवान्निरवयवस्याणुरूपस्यैव मनसः कल्पनादिति सङ्क्षपः॥ ५५॥ (प्र. टी.) शङ्कते-"नचे"ति । तदानीम्-युगपज्ज्ञानानुत्पत्तिकाले ।
"ति । अदृष्टस्यापि कार्यमानम्प्रति सामान्यकारणत्वादिति भावः । समाधत्ते --"तथे"ति । "चक्षुरादीनामि"ति प्रकल्पनापत्तेः कल्पनापरित्यागापत्तेः यथाच चाक्षुषादिज्ञानक्रियायाः चक्षुरादिकरणकल्पनां विना न निर्वाहः तथैव सुखदुःखाद्यपलब्धिक्रियाया अपि अन्तरिन्द्रियं विना न निर्वाह इति भावः । पुनः शङ्कते "नचे"ति दीर्घशष्कुलीभक्षणादौ-दीर्घा लम्बमाना चासौ शष्कुली दीर्घशष्कुली, तस्या भक्षणादौ, आदिना ग्रहणादिपरिग्रहः । "शष्कुली" पूरिकाविशेषः। नानावधानभाजाम्-युगपनानाज्ञानोत्पादनशक्तिमतां पुरुषविशेषाणाम् । कथम-कृत इत्यर्थः । एकदा-युगपत्कालावच्छेदेन नानेन्द्रियजन्यज्ञानम् = चाक्षुषरासनादिप्र.
* छानानामयोगपद्यमहेत्यर्थः।