________________
३६४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावख्याः।
[मनोग्रन्थे
समाधत्ते- 'विशेषधर्मेणे'ति । अनुभवत्वेनेत्यर्थः । व्यभिचाराज्ञाने = व्यभिचारज्ञानाभावे सतीति शेषसामान्यधर्मेण = ज्ञानत्वेन, अन्यथासिद्धत्वात् = कारणलक्षणरहितत्वादित्यर्थः । अयमर्थः-यदि विशेषधर्मेण कार्यकारणभावस्य व्यभिचारो न ज्ञायते तदा सामान्यधर्मेण कार्यकारणभावस्य कल्पनाऽनुचिता । प्रकृते त्वनुभवत्वरूपो विशेषधर्मः प्रत्यक्षादिचतुर्वेव वर्तते ज्ञानत्वरूपसामान्यधर्मस्तु स्मृत्यनुभवोभयसाधारणः । कथमन्यथे 'त्यादिग्रन्थस्तु पूर्वसारप्रदर्शनेनैव व्याख्यातप्रायः । पुनः शङ्कते सामान्यवादी-'नचे'ति । आन्तरालिकस्मरणानाम् = मध्यवर्तिनीनां स्मृतीनाम् । 'व्यभिचारसंशय' इति । अनुभवत्वेन हेतुत्वे व्यभिचारसंशय इत्यर्थः । तथाच विशेषधर्मेण न्यभिचारज्ञानमिति भावः । विशेषवादी समाधत्ते–'अनन्तसंस्कारे' ति । स्पष्टमन्यत् । एतच्च आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः, तथा स्वप्नः' ( १ । ६ । ७) इति वैशेषिकमूलकं ज्ञेयम् ।
इति स्मृतिप्रक्रिया। (मु० ) इदानीं क्रमप्राप्तं मनो निरूपयितुमाह(का० ) साक्षात्कारे सुखादीनां करणं मन उच्यते ।
अयोगपद्याज्ज्ञानानां तस्याणुत्वमिहेष्यते ॥८॥ (प्र० टी० ) नवमं द्रव्यं मनो निरूपयति-साक्षात्कार' इति। सुखादीनां -सुखदुःखेच्छाद्वेषादीनां, साक्षात्कारे प्रत्यक्ष करणं साधनं मन इति मनसो लक्षणम् । तथाच 'सुखदुःखाधुपलब्धिसाधनमिन्द्रियं मन' इत्युक्तं भवति। ज्ञानानाम् अयोगपद्यात्-युगपदुत्पत्यभावात् , तस्य-मनसः, अणुत्वम् अणुपरिमाणमिष्यते इति कारिकार्थः । अयोगपद्यादिति मनसोऽणुत्वे प्रमाणमुक्नं भवति।
(मु०) एतेन मनसि प्रमाणं दर्शितम् । तथाहि सुखसाक्षात्कारः सकरणको जन्यसाक्षात्कारत्वात् चाक्षुषसाक्षात्कारवत् इत्यनुमानेन मनसः करणत्वसिद्धिः । नचैवं दुःखादिसाक्षात्काराणामपि करणान्तराणि स्युरिति वाच्यं, लाघवादेकस्यैव तादृशसकलसाक्षात्कारकरणतया सिद्धेः । एवं सुखादीनामसमवायिकारणसंयोगाश्रयतया मनसः सिद्धिर्बोद्धव्या।
(प्र० टी० ) मनसि किं प्रमाणमिति प्रश्ने उत्तरमाह-एतेनेति । खक्षणकथनेनेत्यर्थः । प्रमाणम् अनुमानं प्रमाणमित्यर्थः । 'जन्यसाक्षात्कारत्वं सकरणकत्वन्याप्य'मिति बोध्यम् । ईश्वरीयसाक्षात्कारे व्यभिचारवारणाय 'जन्येति । शङ्कते'नचैवमिति । समाधत्ते–'लाघवादिति । तेनैव सकलेष्टसिद्धेस्थाकरणान्तरकल्पनमिति भावः । ननु-अतिलाघवावगिन्द्रियस्य प्राणस्य वा करणत्वमस्त्वत माह-एवमिति । भावकार्यस्य सासमवायिकारणकत्वनियमादिति भावः । तदा