________________
स्मृतिप्रक्रिया ।
३६६
तत: प्रथमसंस्कारेण स्मरणे पूर्वसंस्कारनाशः संस्कारान्तरोत्पत्तिश्चेत्येवमुत्तरोत्तरमनेकस्मरणेनानेके संस्काराः समानप्रकाराश्चानेकाः स्मृतयश्चेति नानुत्पत्तिः ज्ञानस्वावच्छिमकारणवादनये । एतस्मिन्मते स्मृतिमानम्प्रति ज्ञानसामान्यमेव कारणं नतु अनुभवो ज्ञानविशेष इति सारः। __ तदेतद्विशेषधर्मावच्छिन्न कारणवादी खण्डयति---'तन्ने'ति । समूहालम्बनो. त्तरमिति- नानाधर्म्यवगायेकं ज्ञानं समूहालम्बनम् । अस्य प्रन्थस्यायममिसन्धिः --यन्त्र ‘इमे रामकृष्णबुद्धा' इत्याकारक: समूहालम्बनरूपोऽनुभवो जातः, ततः संस्कारोबोधकादृष्टादिसमवधाने सति रामादीनां क्रमिकं स्मरणं जातं, समूहालम्बनरूपं स्मरणन्तु नाभूत्, तत्र समानप्रकारकस्मरणरूपं यत् फलमस्ति तत् संस्कारनाशकं नैवोपनभामहे तस्मादुक्को नियमो व्यभिचार्येवास्तीति मन्तव्यम् । एवमेतादृशस्थले कदाचिदीर्घरोगः, कदाचिदीर्घः कालः कदाचिदन्तिमं फलं (स्मृत्याख्यम् ) संस्कारान्नाशयतीत्यवश्यमङ्गीकर्त्तव्यम्, इत्थञ्च यत्र भूयो भूयः स्मरणं तत्रापि संस्कारद्वारा अनुभव एव कारणम् । यदा न स्मरणं भविष्यति तदा त्वन्तिममेव स्मरणास्मकं फलं नाशकं कल्पयिष्यते । तथाच विशेषधर्मावच्छिन्न कारणवादपत्रेऽपि न स्मरणानुपपत्तिरूपो दोषः। ___ यदि तु विशेषधर्मे व्यभिचारं विना सामान्यधर्मेणैव कारणता मन्येत तदा दण्डोपि भ्रमिद्वारा द्रव्यत्वधर्मतया घटं प्रति कारणं स्यात् । अयं भावः-दण्डे द्वौ धौं वर्तेते दण्डत्वं द्रव्यत्वञ्चेति । परन्तु घटम्प्रति दण्डत्वरूपविशेषधर्मावच्छिन्नस्यैव कारणता नतु द्रव्यत्वधर्मावच्छिन्नस्येति संक्षेपः । प्रतिपदं तु न म्याख्यातं गौरवभयादनावश्यकत्वाच्चेति ।
शकते- 'नचे'ति । 'दृढतरसंस्कारानुपपत्ति'रिति । स्मरणस्य संस्कारनाशकत्वादिति भाव: । समाधत्ते– 'झटिती'ति । तथाच पुन: स्मरणान इसत. रसंस्कारोस्पत्ति: किन्तु विद्यमानसंस्कारस्यैव पुनः पुनः स्मरणेन झाटित्युबोधकसमवधानञ्जायते उबुद्धाच तस्मात्स्मरणान्तरमित्याशयवानाह– 'दाव्यपदार्थत्वादिति।
(मु०)नच विनिगमनाविरहादेव शानत्वेनापि जनकत्वं स्यादिति वाच्यं, विशेषधर्मेण व्यभिचाराशाने सामान्यधर्मेणान्यथासिद्धत्वात् । कथमन्यथा दण्डस्य भ्रमिद्वारा द्रव्यत्वेन रूपेण न कारणत्वम् । न चान्त रालिकस्मरणानां संस्कारनाशकत्वसंशयायभिचारसंशय इति वाच्यम् , अनन्तसंस्कारतन्नाशकल्पनापेक्षया लाघवेन चरमस्मरणस्यैव संस्कारनाशकत्वकल्पनेन व्यभिचारसंशयाभावात् ॥ इति स्मृतिप्रक्रिया॥
(प्र. टी ) पुनः शङ्कते-'नचे'ति । विनिगमनाविरहादिति । स्मृतिम्प्रति ज्ञास्वावच्छिचं कारणं अनुभवत्वावच्छिन्नं वेत्येकपक्षपातिन्या युक्रेरभावादित्यर्थः।