________________
अथ स्मृतिप्रक्रिया।
(मु०) पूर्वमनुभवस्मरणभेदाबुद्धदैविध्यमुक्तम् । तत्रानुभवप्रकारा दर्शिताः, सुगमतया स्मरणं न दर्शितम् । तत्र हि पूर्वानुभवः कारणम् । अत्र केचित् । अनुभवत्वेन न कारणत्वं किंतु झात्वेनैव । अन्यथा सकृदनुभवस्थले स्मरणानन्तरं स्मरणं न स्यात्समानप्रकारकस्मरणेन पूर्वसं. स्कारस्य विनष्टत्वात् । मन्मते तु तेनैव स्मरणन संस्कारान्तरद्वारा स्मरणान्तरं जन्यत इत्याहुस्तन्न। यत्र समूहालम्बनोत्तरं घटपटादीनां क्रमेण स्मरणमजनिष्ट, सकलविषयकस्मरणं तु नाभूत्तत्र फलस्य संस्कारनाशकत्वाभावात्कालस्य रोगस्य चरमफलस्य वा संस्कारनाशकत्वं वाच्यम्। तथा च न क्रमिकस्मरणानुपपत्तिः ॥ नच पुनः पुनः स्मरणात् दृढतरसंस्कारानुपपत्तिरिति वाच्यं, झटित्युद्बोधकसमवधानस्य दाढ्यपदार्थत्वात् ॥
(प्र० टी० ) अवसरसङ्गत्या अनुभवोत्तरं स्मृति निरूपयितुमाह पूर्वमि'ति । अनुभवप्रकाराः प्रत्यक्षानुमिस्याद्याः । 'सुगमतयेति---सुगमस्य स्वयमप्यूहितुं शक्यत्वात् कठिनपदार्थविषयिण्येव जिज्ञासा सुधियामादौ जायत इति भावः । 'तत्र हीति-तत्र-स्मृतौ । सामान्यतो ज्ञानं द्विविधं स्मृतिरनुभवश्चेति । तत्र संस्कारमात्रजन्यं ज्ञानं स्मृतिः, स्मृतिभिन्नं ज्ञानमनुभवः । स्मृतिज्ञाने पूर्वानुभव: कारणम् । अन्यथा अननुभूतपदार्थस्यापि स्मृतिः स्यात् । परं स्मृतिम्प्रति अनुभव. स्वेन विशेषधर्मेणानुभवस्य कारणता। तथाच स्मृतित्वावच्छिन्नम्प्रति अनुभवत्वावच्छिन्नं कारणम् इत्यनुभवस्मृत्योः कार्यकारणभावः । अस्मिन्विषये मतद्वयमस्ति कश्चिस्मृतिम्पति अनुभवत्वावच्छिन्नं कारणं मन्यते, कश्चित्तु ज्ञानत्वावच्छिन्नं कारणं मन्यते । श्राद्यो विशेषधर्मावच्छिन्न कारणवादी, द्वितीयः सामान्यधर्मावच्छिमकारणबादी इत्युच्यते । सामान्यधर्मावच्छिन्नकारणवादिनो मतं दर्शयति-'अत्र केचिदि'त्यारभ्य 'आहु' रित्यन्तेन ‘स्मरणं न स्यादिति-अनुभवस्य नष्टत्वादिति भावः । सामान्यधर्मावच्छिन्नकारणवादिनः प्रघट्टस्यायमाशयः-यदि अनुभवत्वेन रूपेण स्मृतिप्रति कारणता तदा एकवारं दृष्टस्य अनुभूतस्य स्मरणोत्तरं सरणं न स्यात् , यतो ऽनुभवजन्यसंस्काराः समानप्रकारकस्मरणरूपं फलमुत्पाद्य नष्टाः, अस्ति चैष नियमो यत् समानप्रकारकस्मरणस्य अनुभवजन्यसंस्कारनाशकत्व'मिति । दृश्यते चैतदपि यदेकवारमनुभूतपदार्थानामनेकवारं स्मरणम् । मम पक्षे तु 'स्मृतित्वावच्छिसम्प्रति ज्ञानत्वावच्छिन्नं कारणम् , ज्ञानत्वं व्यापको धर्मोऽनुभव इव स्मरणेऽपि वर्तते ।