________________
तात्पर्यज्ञानस्य कारणतायामुपपत्तिप्रदर्शनम् ।
वियोगसाहचार्यादीनां * परिग्रहः । विवृतानि चैतानि काव्यप्रकाशादौ मत्प्रणीतकाव्यप्रकाशटीकायाञ्च । प्रकरणादीनां क्लुप्तनियतपूर्ववर्त्तिताकत्वेन अनन्यथासिद्धत्वमात्रकल्पने लाधवमस्तीति शङ्काकर्तुराशय: । समाधत्ते-'तेषामिति ।' अननुगमादिति-प्रकरणादीनामेकरूपेणानुगमाभावादित्यर्थः । तथाच परस्परजन्यशाब्दबोधे परस्परव्यभिचारेण न तेषां हेतुत्वसम्भवः, तात्पर्यस्य तु न कचिदपि व्यभिचार इति भावः । ननु-प्रकरणादान्यपि स्वस्वाधारणस्थले तात्पयानजनकानीति तात्पयज्ञानजनकत्वेन तेषामनुगमसम्भव इत्याशङ्कायामाह-'तात्पर्यज्ञानेति । सत्यमेव तथापि तथानुगमस्तेषां गुरुभूतः तदपेक्षया तात्पर्यज्ञानकारणतायां लाघवमेवेति भावः। ' इत्थञ्चे'ति-शब्दबोधत्वावच्छिन्नं प्रति तात्पर्यज्ञानस्य हेतुभावे सति । कल्प्यते = अनुमीयेत-तत्प्रकारश्चायम्-गां मा हिंसीः' 'स्वर्गकामो यजेत' इत्यादीनि वेदवाक्यानि वक्तृवाक्यार्थयथार्थज्ञानपूर्वकाणि वाक्यरचनात्वात् ' नदीतीरे पञ्चफलानि सन्ती' त्यास्मदाद्याप्तवाक्यरचनावत् । एवञ्च वैशेषिकस्य षष्ठाये न्यायस्य द्वितीयाये सप्तपञ्चाशत्तमसूत्रादौ निर्णीतमिति तत एव कणेहत्य निरीच्यम् । मीमांसकः शङ्कते-'नचेति । अध्यापकः कठादिः । नैयायिकः समाधत्ते–'सर्गादाविति । पुनर्मीमांसकः शङ्कते-'नचेति । नैयायिकः समाधत्ते-'प्रलयस्येति । कार्यद्रव्यानधिकरणकालविशेषात्मकखण्डप्रलयस्येत्यर्थः । 'नाहो न रात्रिन नभो न भूमिर्नासीत्तमो ज्योतिरभून्नचान्य' इत्यद्यागमो बोध्यः । इत्थञ्चेतितात्पर्यज्ञानस्य कारणत्व इत्यर्थः । 'शुकवाक्येपी'ति--यत्र शुकशारिकादिभिर्गचं पद्यं वोच्चारितं तत्र तेषां तात्पर्य तु न भवितुमर्हति, तज्ज्ञानं विना च शाब्दबोधोऽपि नास्ति, तदा तेषां वाक्ये ईश्वरीयतात्पर्यज्ञानमेव कारणत्वेन कल्पनीयम् । तेषां विसंवादिवाक्ये = निष्फलप्रवृत्तिजनकमिथ्योच्चारणे तु ईश्वरेच्छाया विसंवादित्वाभावात् शिक्षयितुरेव पुरुषस्य तात्पर्यज्ञानं हेतुरिति समस्तप्रघट्टार्थः । अत्र नैयायिकैकदेशिमतमाह-'अन्ये त्वि'ति । नानार्थादौ = ' सैन्धवमानय ' इत्यादौ मीमांसा = लाघवज्ञानात्मकस्तर्कः । 'परिशोधिते'ति-सहकृतेत्यर्थः । तर्कोऽत्रानुमानम् ।'आहु' रित्यस्वरसः सूचितः एतद्वीजन्तु-गृहीतनानार्थकवृत्तिकपदजन्यानुभवत्वापेक्षया लाघ. वेन पदजन्यानुभवत्वस्यैव तात्पर्यज्ञानजन्यतावच्छेदकत्वमुचितमिति दिक् । इति श्रीपण्डितदेवीदासतनुजनुषा सतीविष्णुदेवीगर्भजेन श्री जैनन्यायविशारद-कवितार्किक -दर्शनाचार्य नृसिंहदेवशास्त्रिणा विरचितायां सिद्धान्तमुक्तावल्या: 'प्रभा' ख्यायां व्या
ख्यायां तुरीयं शब्दखण्डं समाप्तम् ।
समाप्ता च शब्दखण्डनाम्नी सप्तमी मुक्का। * आदिना विशेषणपरिग्रहः । तथाच 'सशङ्खचक्रोहरिः' इत्यत्र 'हरि' शब्दस्य कपीन्द्राघनेकार्थत्वात् हरिशब्देन कस्य ग्रहणमित्याकांक्षायां निर्णायकं सशङ्खचक्र इति विशेषणम् ।