________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः ।
[ शब्दखण्डे
राजपदस्य पुत्रपदेनेव पुरुषपदेनाप्याकांक्षासवाद्राज्ञः पुरुष इत्यन्वयबोधः स्यादित्यत श्रह - श्रयमेतीति । श्रस्यायमाशयः 'अयमेती' त्याद्युभयविधाकांक्षावति वाक्ये वक्तृतात्पर्यानुरोधेन शाब्दबोधो भवति । ' राज्ञ' इति सम्बन्धविशेषबोधिका षष्ठी उभयत्रैवान्वेतुं योग्याऽस्ति । यदि पुत्रे अन्वयः स्यात् तदा 'अयं राज्ञः पुत्र आयाति अ पुरुषः = जनसमूहः अपसार्यताम्' यदि पुरुषेऽन्वयः, तदा ' राज्ञः पुरुष श्रायाति श्रग्रे पुत्रोऽपसार्यतामिति शाब्दबोधः वक्तृतात्पर्यरूपेच्छानुसारेण बोध्यः । तात्पर्यस्यापि शाब्दबोधप्रति कारणत्वात् ।
३६०
ननु - किमिदं तात्पर्यं यस्य कारणभाव उक्त इति तद्दर्शयितुमाह - 'तात्पर्य निर्वक्ति' इति । एतस्य शाब्दबोधम्प्रति कारणभावं समर्थयते – 'यदी' त्यादिना । ' घटमानय ' इत्यादौ कर्मत्वविशेष्यका धेयता संसर्गकघटप्रकारकप्रतीतीच्छा वक्तुस्तास्पर्थम् ' तादृशेच्छयोच्चरितमिदं वाक्य' मित्याकारकं श्रोतुस्तात्पर्यज्ञानं तच्छाब्दबोधे कारणमिति निर्गलितो ऽर्थः । तत्र युक्तिमाह – 'सैन्धवे 'ति । श्रादिना 'श्वेतो धावती'त्यादि परिग्रहः । तत्र कदाचित् श्वेतगुणविशिष्टस्य कदाचित् कुक्कुरादेर्बोधस्य तात्पर्यज्ञाननियम्यत्वात् । ' क्वचिल्लवणस्ये 'ति क्वचिदुभयोरित्यपि बोध्यम् । ' इति न स्यादिति - इति नियमो न स्यादित्यर्थः । इदमुपलक्षणम् - तात्पर्यसंशये व्यतिरेकनिश्चये वा शाब्दबोधानुदयाच्छाब्दबोधे तत्पर्यज्ञानं कारणं तत्संशय इि व्याप्तेरित्यपि बोध्य मिति दिनकरः ।
(मु० ) नच तात्पर्यग्राहकप्रकरणदीनां शब्दबोधे कारणत्वमस्त्विति वाच्यं तेषामननुगमात् । तात्पर्यज्ञानजनकत्वेन तेषामनुगमे तु तात्पर्य - ज्ञानमेव लाघवात्कारणमस्तु इत्थं च वेदस्थलेऽपि तात्पर्यज्ञानार्थमीश्वरः कल्प्यते । नच तत्राध्यापकतात्पर्यज्ञानं कारणमिति वाच्यं, सर्गादाबध्यापकाभावात् । नच प्रलय एव नास्तीति कुतः सर्गादिरिति वाच्यं प्रलयस्यागमेषु प्रतिपाद्यत्वात् इत्थं च शुकवाक्ये ऽपश्विरयितात्पर्यज्ञानं कारणम् । विसंवादिशुकवाक्ये तु शिक्षयितुरेव तात्पर्यज्ञानं कारणम् । श्रन्ये तु नानार्थादौ कचिदेव तात्पर्यज्ञानं कारणम्, तथा च शुकवाक्ये विनैव तात्पर्यज्ञानं शाब्दबोधः । वेदे त्वनादिमीमांसापरिशोधित तकैरेवार्थावधारणमित्याहुः ॥ ८४ ॥
,
इति श्रीविश्वनाथन्यायपञ्चानन भट्टाचार्यविरचितायां सिद्धान्तमुक्तावल्यां शब्दखण्डं समाप्तम् ॥
( प्र० टी० ) शङ्कते - 'नचे 'ति । 'प्रकरणादीनामिति । श्रादिना संयोग