________________
बक्षणाप्रपश्चः।
इत्याशयेनाह-शाब्दबोधम्प्रत्यपि प्रतिबन्धकत्वं सिद्ध'मिति । ननु-यन्त्र नायोग्यताज्ञानं नवा योग्यताज्ञानं तत्र शाब्दबोधापत्तिरित्यत आह-'योग्यताज्ञानविलम्बाञ्चति । तथा चेष्टापत्तिरेवासाकमिति भावः ।
(मु०) आकांक्षां निर्वकि( का०) यत्पदेन विना यस्याननुभावकता भवेत् ।
आकांक्षा वक्तुरिच्छा तु तात्पर्य परिकीर्तितम् ॥४॥ (मु०) येन पदेन विना यत्पदस्यान्वयाननुभावकत्वं तेन पदेन सह तत्याकांक्षेत्यर्थः। क्रियापदं विना कारकपदं नान्वयबोधं जनयतीति तेन तस्याकांक्षा ॥
(प्र० टी०) प्राकाङ्क्षां निर्वक्ति परममूले–'यत्पदेने'ति । येन पदेन विना यस्य पदस्य अननुभावकता अन्वयाननुभावकत्वं नाम अर्थास्मारकत्वं भवेत् तेन सह तस्याकांक्षा । यथा 'घट' मिति कारकपदं 'आनये'ति क्रियापदं विना नान्वयबोधं जनयतीति तेन तस्याकांक्षा । 'गौरश्वः पुरुषो हस्ती'त्यत्र नाकांक्षा । अत एव न शाब्दबोध इति कारिकाशयः । 'येने ति मूले । उकव्याख्यानेन गतार्थमिदम् ।
(मु०) वस्तुतस्तु क्रियाकारकपदानां संनिधानमासत्त्या चरिताथम् । परन्तु घटकर्मताबोधं प्रति घटपदोत्तरद्वितीयारूपाकांक्षाज्ञानं कारणम् । तेन घटः कर्मत्वमानयनं कृतिरित्यादौ न शाब्दबोधः ॥ अयमेति पुत्रो राक्षः पुरुषोऽपसार्यतामित्यादौ तु पुत्रेण सह राजपदस्य तात्पर्यग्रहसत्त्वात्तेनैव सहान्वयबोधः। पुरुषेण सह तात्पर्यग्रहे तु तेन सहान्वयबोधः स्यादेव । तात्पर्य निर्वक्ति । वक्तुरिच्छेति। यदि तात्पर्यशानं कारणं न स्यात्तदा 'सैन्धवमानय' इत्यादौ क्वचिदश्वस्य कचिल्लवणस्य बोधो न स्यात् ॥
(प्र० टी०) अत्रत्यं रहस्यं वक्तुमाह -'वस्तुतस्विति। अस्यायमर्थ:यद्यप्याकांक्षा कारणं तथापि अस्यां यः क्रियाकारकादिपदानामव्यवधानरूपसन्निध्यंशः तस्यांशस्य लाभस्तु पूर्वोक्ताया श्रासत्तेः सकाशादेव जायते तेषां पृथगाकाक्षायाः कारणभावो नोपयुज्यते । परन्तु प्रत्यये यदिदं प्रकृत्युत्तररूपाकांक्षाज्ञानं तस्य तु आसत्त्या नैव गतार्थता एवं तादृशाकांक्षाज्ञानन्तु पृथगेव कारणाभावं भजते । यथा घटनिष्ठकर्मताबोधम्प्रति घटपदाव्यवहितोत्तरद्वितीयाविभक्तिरूपाकांक्षाज्ञानं कारणम्। तथा च-'घट: कर्मत्वम् श्रानयनं कृति' रित्यादिवाक्यस्थले 'घटमानय' इत्यादिसाकाक्षावाक्यवत् शाब्दबोधो न भवति । एवञ्च उत्तरत्वमपि क्रियाकारकपदयो पेक्षितम् । 'पचति चैत्रः, चैत्रः पचति' इति वाक्यद्वयादपि शाब्दबोधदर्शनात् ।
ननु-'अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यता' मित्यादौ प्रजनितान्वयबोधदशायां