________________
३५८ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्या:। [शब्दखण्डे योग्यता। नतु 'वह्निना सिञ्चती' त्यत्र, वह्वेः सेककरणत्वाभावात् द्रवद्रव्यक्षरणस्यैव सेकपदार्थत्वात्, वह्नौ च तदभावाद् इत्याशयेनाह–'तज्ज्ञानाभावाच्चे 'त्यादि । शङ्कते–'नन्विति । 'सर्वत्रे'ति-सर्वत्र शाब्दबोधात्पूर्वमनिश्चितत्वादित्यर्थः । शङ्कापक्षे हेतुमाह-वाक्यार्थस्य'ति । सर्वत्रेतिग्रन्थव्याख्यानेन व्याख्यातमिदम् । समाधत्ते–'इति चेन्नेति । समाधानग्रन्थस्याक्षराणि सुगमानि । सारस्तु-- यद्यपि सर्वत्र वाक्यार्थबोधोऽपूर्वः योग्यतायाः कारणत्वे च साऽपूर्वता नास्तीति सा सर्वत्र शाब्दबोप्रति न कारणं, तथापि तत्तत्पदजन्यतत्तत्पदार्थस्मृतिसत्त्वात् संशयनिश्चयसाधारणं योग्यताज्ञानं सर्वत्रैव कारणम् । तथाच 'शाब्दबुद्धित्वावच्छिन्नम्प्रति योग्यताज्ञानत्वावच्छिन्नं हेतुरिति कार्यकारणभावो बोध्यः। औपनिषदास्तु-तात्पर्यविषयसंसर्गाबाधो योग्यता। 'वह्निना सिञ्चद्' इत्यादौ तादृशसंसर्गबाधान्नातिव्याप्ति रित्याहुः । प्रभाकरास्तु--न पदजन्यपदार्थोपस्थिति: शाब्दज्ञानाङ्गम् किन्तूपस्थितिमानं लाघवादित्याहुः, विस्तरस्त्वन्यतो ज्ञातव्यः । __(मु०) नव्यास्तु, योग्यताया ज्ञानं न शाब्दज्ञाने कारणम् । वह्निना सिञ्चतीत्यादौ सेके वह्निकरणत्वाभावरूपाऽयोग्यतानिश्चयेन प्रतिबन्धान शाब्दबोधः । तदभावनिश्चयस्य लौकिकसंनिकर्षाजन्यदोषविशेषाजन्यज्ञानमात्रे प्रतिबन्धकत्वाच्छाब्दबोधं प्रत्यपि प्रतिबन्धकत्वं सिद्धम्, योग्य. ताज्ञानबिलम्बाच्च शाब्दबोधबिलम्बोऽसिद्ध इति वदन्ति ॥ २२॥८३ ॥
(प्र० टी० ) अन्नैव नवीनमतमाह-'नाव्यास्त्विति । स्पष्टम् । ननु-अयोग्यतानिश्चयस्य प्रतिबन्धकत्वे तदभावत्वेन कारणत्वं वाच्यम् , तदपेक्षया तु योग्यता. ज्ञानस्यैव कारणत्वमुचितं लाघवादित्याशक्याह 'तदभावनिश्चयस्येति । अस्थायमर्थः–'अनाहार्याप्रामाण्यज्ञानानास्कन्दिततद्धर्मिकतदभावनिश्चयः लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्धर्मिकतज्ज्ञानमात्रम्प्रति प्रतिबन्धक' इति नियमः । अत्र नियमवाक्ये प्रथमतत्पदेन प्रकृतर्मिणो ग्रहणं, द्वितीयतत्पदेन धर्मस्य ग्रहणम् । बाध. कालीनेच्छाजन्यं ज्ञानमाहार्यम् । यथा शालग्रामशिलायां विष्णुबुद्धिः, प्रतिमायां वा देवबुद्धिः । तद्भिन्नमनाहार्यम् । अप्रामाण्यज्ञानास्कन्दितं नाम अप्रामाण्यप्रकारकज्ञानविशेष्यं तद्भिन्नमप्रामाण्यज्ञानानास्कन्दितम् । निश्चयस्वच संशयभिन्नज्ञानत्वम् । एवञ्च अनाहार्याप्रामाण्यज्ञानानास्कन्दिततद्धर्मिकतदभावनिश्चयस्य लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्धर्मिकतज्ज्ञानमात्रे प्रतिबन्धकत्वमिति प्रतिबंध्यप्रतिबन्धकभाव सिद्धिः। प्रत्यक्षभिन्नं ज्ञानमात्रं लौकिकसन्निकर्षाजन्यम् । तत्र दोषविशेषजन्यं 'पीतःशङ्ख' इत्यादिज्ञानं विहाय यावज्ज्ञानम्प्रति तदभावनिश्चयस्य प्रतिबन्धकत्वात् 'वह्निना सिञ्चति' इत्यत्र सेकेपि वह्निकरणकत्वाभावरूपां योग्यतानिश्चयस्य प्रतिबन्धकत्वं मन्तज्यम् नतु उक्तस्थले शाब्दबोधापत्तिवारणाय योग्यताज्ञानस्य कारणभावः कल्प्य