________________
लक्षणाप्रपश्चः।
(प्र० टी० ) लाघवेन पदार्थोपस्थितिमेव हेतुं मन्वानस्य अर्थाध्याहारवादिनः प्रभाकारस्य मतं दूषयति-"इदन्तु बोध्य"मित्यादिना । अत्राशयमात्रेण ग्रन्थं योजयामः-यत्र "द्वार" मित्येकमेव कर्मपदमुक्तं तदाकाङ्क्षि “पिधेहि" इति क्रियापदं नोपात्तम् । किन्तु तस्यार्थज्ञानमात्रमस्तीति न तदा शाब्दबोधः। परन्तु पदस्थ = "पिधेहि" इति पदस्य ज्ञानात् = श्रावणादनुभवात् अर्थादुक्तपदाध्याहारादेव शाब्दबोधो जायते नतु पिधानादिरूपार्थज्ञानात् । “पदजन्ये"ति--पदजन्ययपदार्थोपस्थितिरेव शाब्दबोधम्प्रति कारणम् नतु पदार्थोपस्थितिमात्रम्। तथासति प्रत्यक्षादिनोपस्थितस्यापि शाब्दबोधापत्तिः स्यात् तस्मानार्थाध्याहारवादपक्षः शोभन इति भावः ।
अत्रैव गमकान्तरमाह-"किञ्चे"ति । क्रियाकर्मपदानाम् = "द्वारं पिधेहि" इत्यादिपदानां तेन तेनैव रूपेण-तादृशानुपूर्वीविशिष्टरूपेणैव साकाङ्त्वात् = अर्थात तादृश्या आकाङ्क्षायाः शाब्दबोधम्प्रति हेतुत्वात्, क्रियापदं विना=क्रियापदोच्चारणं विना कथं शाब्दबोधः स्यात्, कथमपि न स्यादिति भावः।। . यद्यर्थज्ञानमात्रमेव शाब्दबोधोपयोगि नतु तादृशानुपूर्वीविशिष्टा पदजन्यपदार्थोंपस्थितिस्तादा "द्वारं कर्मस्वं पिधानं कृति" रिति वाक्यादपि द्वारकर्मकपिधानानुकूलान्वयबोध: स्यात्, नत्वयं दृश्यते । तस्मात्" द्वारं पिधेहि" इत्यानुपूर्वीरूपकाङ्क्षाज्ञानस्य हेतुत्वमवश्यं वाच्यम् तथासति तादृशाकाङ्क्षाज्ञानार्थ पिधेहीति पदाध्याहार आवश्यक एवेति सिद्धान्तसारः।
स्वोक्तार्थे उपपत्त्यन्तरमाह--"तथे"ति । यदि "स्पृहयति" इत्यदि क्रियापदं नाध्याहियेत तदा 'पुष्पेभ्य' इति कर्मपदोत्तरं कथं चतुर्थी विभक्तिः स्यात् 'स्पृहेरी. प्सित' (१।४।३६) इति पाणिनिः स्पृहयतिपदयोग एव कर्मत्वार्थकचतुर्थी स्मरति नतु तदर्थज्ञानेऽ पीति सर्वत्रैव साकाक्षितस्थले पदाध्याहार आवश्यकः ।
(का०) पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता ॥८३॥ (मु०) एकपदार्थेऽपरपदार्थसम्बन्धो योग्यतेत्यर्थः । तज्ज्ञानाभावाच्च वह्निना सिञ्चतीत्यादौ न शाब्दबोधः। नन्वेतस्या योग्यताया ज्ञानं शाब्दबोधात्प्राक्सर्वत्र न संभवति वाक्यार्थस्यापूर्वत्वादिति चेन्न, तत्तत्पदार्थस्सरणे सति क्वचित्संशयरूपस्य कचिनिश्चयरूपस्यापि योग्यताया ज्ञानस्य संभवात् । __ (प्र० टी०) योग्यतां दर्शयति परममूले 'पदार्थ' इति । तत्र = तस्मिन्प्रक्रान्ते पदार्थे, तद्वत्ता = पदान्तरार्थप्रतियोगिको विविक्षितसम्बन्धो योग्यता परिकीर्तिता = कथितेति कारिकार्थः। मूले 'एकपदार्थ'-इति । अर्थात् कारिकायां प्रथमं तत्पदमेकपदार्थपरं, द्वितीयं तत्पदमपरपदार्थपरम् । तथा च निष्कृष्टं लक्षणस्वरूपम् 'एकपदार्थ' इत्यादि । एवञ्च ‘पयसा सिञ्चति' इत्यत्र सेकपदार्थे पयसः करणतया सम्बन्धी