________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः।
[शब्दखण्डे
(मु०) एतेन तावद्वर्णाभिव्यङ्ग यः पदस्फोटोऽपि निरस्तः। तत्तवर्णसंस्कारसहितचरमवर्णोपलम्भेन तद्वयञ्जकेनैवोपपत्तेरिति इदं तु बोध्यम्
(प्र. टी ) वैयाकरणमतं निरस्यति-"एतेन"ति । पूर्वकथनेन वक्ष्यमाणयु. क्या चेत्यर्थः । तावद्वर्णाभिव्यङ्ग्यः = तावन्तः एकस्मिन्पदे यावन्तो वर्णास्तैरभिव्य. जयः प्रकाश्यः, पदस्फोटोऽपि निरस्तः खण्डितो वेदितव्य इत्यर्थः । अत्र युक्तिमाह"तत्तद्वणे"ति । ते ते ये वर्णाः = अर्थात् पूर्वे पूर्वे ये वर्णाः, तेषामनुभवजन्या ये संस्काराः, तैः सहिता यैश्वरमवर्णस्य अन्तिमवर्णस्योपलम्भः उपलब्धिर्ज्ञानम् , अर्थात् श्रौत्रः साक्षात्कारः, तेनैव तयञ्जकेन = पदाभिव्यक्तिहेतुभूतेन उपपत्ते % मर्थबोधोपपत्तेः पदार्थज्ञाननिर्वाहादित्यर्थः ।
अयमत्राभिसन्धिः -वैयाकरणास्तावत् कचटतपादिवर्णव्यतिरिक्तं पदं वाक्यं वा वाचकं मन्यन्ते । तत्र तेषामियं युक्तिः-यदि वर्णा वाचका: स्युः किन्ते प्रत्येक वाचकाः ? अथवा सम्भूय वाचकाः ? इत्यस्ति विकल्पद्वयम् । आद्यपक्षे-प्रत्येकं वर्णस्य वाचकत्वे एकस्मिन् पदे द्वितीयवर्णोच्चारणं निरर्थकम् । अर्थात् 'गौ' रितिपदेन यावान् गोत्वजातिरूपोऽर्थ उच्यते तावतोऽर्थस्य उच्चारणेनैव बोधात् शिष्टानामौकारादिवर्णानामुच्चारणानर्थक्यं प्राप्तम् , तस्मान्न प्रथमः पक्षः क्षोदक्षमः । द्वितीयपक्षे. ऽपि विवेचनीयम्-यद् वर्णसमुदायवादिनां द्वौ पक्षौ स्तः । उत्पद्यमानसमुदायोऽभिव्यज्यमानसमुदायश्चेति । आये = उत्पत्तिपक्षे युगपद्वर्णानामुत्पत्त्यभावात् समुदायाभावः, उत्पन्नेष्वपि वर्णेषु पूर्वपूर्ववर्णस्य नष्टत्वात् समुदायाभावे नैव सम्भूय वाचकत्वं वर्णानाम् । द्वितीयस्मिन् = अभिव्यक्रिपक्षेऽपि क्रमेणैव वर्णानामभिव्यक्तिर्वक्तव्या। ततश्च सर्वथा समुदायाभावः उत्पन्चाया अभिव्यक्तेर्ध्वस्तत्वादेव । एवं पक्षद्वयेपि दोषद शनात् वर्णव्यतिरिक्तस्तावद्वर्णाभिव्यङ्ग्यः स्फोट एव जात्याद्यर्थवाचको मन्तव्यः सच वर्णपदवाक्यस्फोटादिभेदेनानेकविधो मञ्जूषादौ स्पष्टो ग्रन्थगौरवभयान्नेह सविस्तरमवतारितः ।
तदेतत्नैयायिकैर्न सह्यते-पूर्वपूर्ववर्णानुभवजन्यो यः संस्कारः तत्सहितो योऽन्त्यवर्णस्य अनुभवः, तद्धेतुका या स्मृतिः, तदुपारूढा वर्णा एव पदभावं प्राप्ता गोत्वाद्यर्थवाचका इति नाभिव्यक्तिपक्षे वर्णसमुदायवाचकत्वे कश्चिदोष इति मधुपदस्फोटादिकल्पना वैयाकरणानाम् । अधिकन्तु काव्यप्रकाशटीकायां मत्प्रणीतायां द्रष्टव्यम् । अयं पक्षो देवताधिकरणे ब्रह्मसूत्रीयशाङ्करभाष्ये भामत्यादावपि विस्तृतः। __(मु) यत्र द्वारमित्युक्तं तत्र पिधेहीत्यादिपदस्य ज्ञानादेव बोधो न तु पिधानादिरूपार्थज्ञानात् । पदजन्यपदार्थोपस्थितेस्तच्छाब्दबोधे हेतुत्वात्। किञ्च क्रियाकर्मपदानां तेन तेनैव रूपेण सह साकाङ्क्षत्वात् । तेन क्रियापदं विना कथं शाब्दबोधः स्यात् । तथा पुष्पेभ्य इत्यदौ स्पृहयतीत्यादि. पदाध्याहारं विना चतुर्थ्यनुपपत्तेः पदाध्याहार आवश्यकः ॥