________________
रूपनिरूपणम् ।
माह -परममूले 'चतुर्ग्राह्यमि'ति । चतुर्मात्रप्रायजातिमदित्यर्थः । चक्षुर्मात्रग्राह्यविशेषगुणत्वं रूपस्य लक्षणम् । बुद्धयादिवारणाय 'चतुर्दा 'ति । सङ्ख्यावारणाय 'विशेषेति । मेहसांसिद्धिकद्रवत्वयारतिव्याप्तिवारणाय 'मान'पदं दत्तम् । द्रव्यादेःद्रव्यगुणकर्मसामान्यानाम् , उपलम्भकम् = उपलब्धिकारणम् प्रत्यक्षे कारणमित्यर्थः। बहिर्द्रव्यचाक्षुषप्रत्यक्ष रूपस्य कारणतया रूपं विना तत्सर्वमेवाप्रत्यक्षमिति भावः। एतदेवाह-"चक्षुष" इति । चाक्षुषप्रत्यक्षे जननीये चक्षुषः सहकारिकारणत्वमित्यर्थः । तच्च-नानाप्रकारमित्याह -"शुक्लादिक"मिति ।। __(मु०) चक्षुरिति । रूपत्वजातिस्तु प्रत्यक्षसिद्धा । रूपशब्दोल्लेखिनी प्रतीतिर्नास्तीति चेन्मास्तु रूपशब्दप्रयोगस्तथापि नीलपीतादिष्वनुगतजातिविशेषोऽनुभवसिद्ध एव । रूपशब्दाप्रयोगेऽपि नीलो वर्णः पीतो वर्ण इति *वर्णविशेषोल्लेखिनी प्रतीतिरस्त्येव । एवं नीलत्वादिकमपि प्रत्यक्षसिद्धम् । न चैकैका एव नीलरूपादिव्यक्तय इत्येकव्यक्तिवृत्तित्वा. नीलत्वादिकं न जातिरिति वाच्यं, नीलो नष्टो रक्त उत्पन्न इत्यादिप्रतीतेनीलादेरुत्पादविनाशशालितया नानात्वात्। अन्यथा एकनीलनाशे जगदनीलमापद्येत । नच नीलसमवायरलसमवाययोरेवोत्पादविनाशविषय. कोऽसौ प्रत्यय इति वाच्यम्, प्रतीत्या समवायानुल्लेखात् । नच स एवायं नील इति प्रत्ययाल्लाघवाच्चैक्यमिति वाच्यम्, प्रत्यक्षस्य तज्जातीय. विषयकत्वात् सैवेयं गुर्जरीति वत् । लाघवं तु प्रत्यक्षबाधितम् । अन्यथा घटादीनामप्यैक्यप्रसङ्गात् । उत्पादविनाशबुद्धेः समवायालम्पनत्वापत्तेरिति । एतेन रसादिकमपि व्याख्यातम्।
(प्र० टी० ) कारिका सिद्धान्तप्रदर्शनेन व्याख्यातुं प्रतीकमादत्ते-"चतु" रितीति । यदि रूपत्वजातौ किं मानमिति शङ्का स्यात्तदोत्तरमाह-"रूपत्वजाति" स्त्विति । संयुक्तसमवेतसमवायसम्बन्धेनेति शेषः । “रूपं रूप"मित्यनुगतप्रत्यय एव रूपत्वजातौ प्रत्यक्षं प्रमाणमिति भावः । शङ्कते–'रूपशब्दोल्लेखिनी'ति । उल्लेख आकारः। यथा नीलपीतादिशब्दोल्लेखः सर्वसाधारणः न तथा रूपशब्दोल्लेखः, किन्तु नीलपीतादिव्यनय एव प्रतीयन्ते इति शङ्काकर्तुराशयः। समाधत्ते-"तथापी"ति । तदेतश्चिन्त्यम् “नीलो वर्ण" इतिवद् 'नीलरूपशब्दोल्लेखिन्या अपि प्रतीतेरनुभवसिद्धत्वात् नीलत्वादिजातावपि प्रत्यक्ष प्रमाणमतिदिशति-'एवमिति । नीलत्वादिकं न जातिरित्याक्षिपति-"न"ति। अामनिक्षिप्ते घटादौ प्रतीतिमादाय परिहरति-- "नीलो नष्ट" इत्यादिना। विपक्षे दण्डमाह--"अन्यथे"ति । नीलादीनामकन्यक्तित्व इत्यर्थः । दुराग्रहमुखः पुनः शङ्कते--'नच नीलेत्यादिना' । 'नीलो नष्टो रक्त उत्पन्न' इति प्रतीतिः समवायस्यैव उत्पत्तिविनाशौ अवगाहते नतु नीलरकरूपयोरिति, तथाच ____* कचित्- 'वर्णशब्दोल्लेखिनी" इति पाठः।