________________
३७६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुकावल्याः।
गुणमये
नीलपीतादिन्यक्तिषु नानात्वं नोचितमिति शङ्काग्रन्धार्थः । समाधत्ते--'प्रतीत्येति । समवायस्य नित्यत्वादपीति हृदयम् । स एव लाघवमनुसरन् नीलैक्यमुत्यति-- "नचे"ति । तत्र प्रत्यभिज्ञारूपां युक्तिमाह--“स एवायं नील"इति । सिद्धान्ती रहस्यमुद्घाटयति--"प्रत्यक्षस्ये"ति । नील सजातीयविषयिणी सा प्रत्यभिज्ञा नतु नीलैक्यमिति भावः तदेतत् दृष्टान्तेन समीकरोति सिद्धान्ती--"सैवेय"मिति । गुर्जरदेशोद्भवौषधविशेषोगुर्जरीति, मूलचन्द्रिकाकृतः। तत्रत्यानारीति केचित्। ननु लाघवादे. वनीलादिव्यक्त्यैक्यं सेत्स्यतिइत्याह-"लाघवन्त्वि"ति । प्रत्यक्षबाधितम्="नीलो नष्टः रक्त उत्पन्न" इति प्रत्यक्षबाधितमित्यर्थः। अन्यथा = बाधितलाघवेनापि ऐक्याभ्युपगमे, घटादिव्यक्तीनामप्यैक्यं प्रसज्येतेति भावः । सिद्धान्ती स्वाभिसन्धिमुद्घाटयति"उत्पादविनाशबुद्धे"रिति । यथा नीलैक्यं मत्वा तत्समवायस्यैवोत्पत्तिविनाशौ मन्यसे तथा घटैकव्यक्तिवादेऽपि कुतो नाभ्युपगमवानसि। उक्नं सिद्धान्तमन्यत्रापि प्रतिदिशति--"एतेने"ति । ईदृशजातिसाधकप्रमाणेनेत्यर्थः । रसादिकम् = रसत्वादिकम् । आदिना गन्धस्वादिपरिग्रहः ।
(मु०) चतुर्ग्राह्यमिति । चक्षुह्यविशेषगुणत्वमित्यर्थः । एवमग्रेड पि । द्रव्यादेरिति । उपलम्भकमुपलब्धिकारणम् । इदमेव विवृणोति । चक्षुष इति । द्रव्यगुणकर्मसामान्यानां चाक्षुषप्रत्यक्षं प्रति उद्भूतरूपं कारणम् । शुक्लादिकमनेकधेति । तच्च रूपं शुक्लनीलपीतरक्तहरितकपिशकर्बुरादिभेदादनेकप्रकारकं भवति ।
(प्र० टी० ) चक्षुर्ग्राह्यमितीत्यादि कृतव्याख्यानमधस्तात् । 'एवमग्रेपी'ति-रसस्पर्शलक्षणेऽपि एव दिगनुसरणीयेत्यर्थः ।
(मु०) ननु कथं कर्बुरमतिरिक्तरूपं भवति । इत्थं, नीलपीताद्यवयवारब्धोऽवयवी न तावन्नीरूपोऽप्रत्यक्षप्रसङ्गात् । नापि व्याप्यवृत्ति नीलादिरूपमुत्पद्यते पीतावच्छेदेनापि नीलोपलब्धिप्रसङ्गात् । नाप्यव्याप्यवृत्तिनीलादिकमुत्पद्यते व्याप्यवृत्तिजातीयगुणानामव्याप्यवृत्तित्वे विरोधात् । तस्मानानाजातीयरुपैरवयविनि विजातीयं चित्रं रूपमारभ्यते। अत एवैकं चित्रमित्यनुभवोऽपि । नानारूपकल्पने गौरवात् ।
(प्र० टी०) चित्ररूपविषये शङ्कते-“नन्वि" ति । कर्बुरचित्रमित्यर्थः । किन्तु समुदाचरवृत्ति नीलपीतादिकमेव चित्रसंज्ञां भजते नातिरिक्त्रं रूपमस्ति । समा धत्ते-" इत्थमि" ति । अनेन प्रकारेण तदतिरिक्तमेव मन्तव्यं भवतीत्यर्थः । तमेव तस्य अतिरिकतासाधकप्रकारं दर्शयति-"नीलपीते "ति । नीलपीताघवयवा रब्धः = नीलपीताद्यवयवोत्पन्नः न तावन्नीरूपः तत्र हेतुमाह-अप्रत्यक्षत्वप्रसङ्गादि ति । द्रव्यचाक्षुषप्रत्यक्षम्प्रति उद्धृतरूपस्य कारणत्वादिति भावः । व्याप्य