________________
चित्ररूपसिदिः।
वृत्ति = सर्वदेशवृत्ति । ननु-चित्रपटादावव्याप्यवृत्ति नीलादिकमेवोत्पद्यतां को दोष इत्याह "नाप्यव्याव्यवृत्ती"ति । तत्र हेतुं विरोधमाह "व्याप्यवृत्ती"ति । सिद्धान्तेनोपसंहरति-"तस्मादि "ति । "विजातीय" मिति-नीलाचतिरिक्रमित्यर्थः । अत्रार्थे "एकं चित्ररूपम्" इत्यनुभवमपि प्रमाणयति--"अत एवे"ति । चित्रानङ्गीकारे दोषान्तरमप्याह -"नाने" ति। “गौरवादि"ति-चित्रमित्याका. रकप्रतीतिविषये अनेकरूपकल्पनायामुपस्थितिकृतं गौरवमपीति भावः। __ (मु०) इत्थं च नीलादीनां पीताद्यारम्भे प्रतिबन्धकत्वकल्पनादवयविनि न पीताद्युत्पत्तिः । एतेन स्पर्शोऽपि व्याख्यातः। रसादिकमपि. नाव्याप्यवृत्ति किन्तु नानाजातीयरसववयवैरारब्धेऽवयविनि रसाभावेऽ पि न क्षतिः। तत्र रसनयाऽवयवरस एव गृह्यते, रसनेन्द्रियादीनां द्रव्यग्रहे सामर्थ्याभावात्, अवयविनो नीरसत्वेऽपि क्षतेरभावात् । नव्यास्तु. तत्राव्याप्यवृत्त्येव नानारूपं, नीलादेः पीतादिप्रतिबन्धकत्वकल्पने गौरवात् । अतएव--
लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः।
श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ इत्यादिशास्त्रमप्युपपद्यते। नच व्याप्याव्याप्यवृत्तिजातीययोईयोर्वि रोधः, मानाभावात् । नच लाघवादेकं रूपम्, अनुभवविरोधात् । अन्यथा घटादेरपि लाघवादैक्यं स्यात् । एतेन स्पर्शादिकमपि व्याख्यातमिति वदन्ति ॥ १०॥
(प्र० टी० ) "इत्थञ्चे"ति-लाघवेन चित्ररूपसिद्धावित्यर्थः । "प्रतिबन्धकत्वकल्पनादि"ति। अस्यायमाशयः-समवायेन नीलम्प्रति खसमवायिसमवे. तत्वसम्बन्धेन नीलातिरिक्तरूपत्वेन पीतरूपं प्रति पीतातिरिक्तरूपत्वेन नीला. दिरूपन्यक्कीनां प्रतिबन्धकतेतिरीत्या प्रतिबध्यप्रतिबन्धकभावकल्पनात् । अवयविनि-घटादौ न पीतायुत्पत्तिः । तथाच तेषां प्रत्यक्षत्वाभाव: स्यादिति भावः । उनन्यायं स्पर्शेऽप्यतिदिशति-"एतेने"ति । कोमलकठिनस्पर्शवदबयवाभ्यामारब्धे घटादौ स्पर्शानङ्गीकारे घटस्य स्पार्शनप्रत्यक्षानापत्तिरित्यादिरीत्या चित्रस्पर्शोपि मावश्यक इति भावः । __ ननु-रूपवद्रसादिकमपि चित्रमङ्गीकर्त्तव्यमित्याशङ्कायामाह-" रसादिक" मिति । नाव्याप्यवृत्ति-नहि किश्चिदवयवावच्छेदेनोत्पत्तिमत् । रूपात् रसस्य वैजक्षण्यमाह-"किन्त्वि"ति । नन्धवयविनि रसो न स्यात्तर्हि रसवढ्गम्यस्य कथं प्रत्यक्षत्वम् ? तत्रोत्तरमाह--"अवयविनी'ति । कथं रसनया रसग्रहणमिति शशयां सिद्धान्तं दर्शयति-"तो"ति । चित्ररसस्य प्रतीतिस्तु अवयवगतरनकै