________________
३७८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[गुणप्रन्ये
mamaw
रसैरेव भवतीति भावः । अन्न हेतुमाह-"रसनेन्द्रियादीनामि"ति । प्रादिपदेन प्राणश्रोत्रयोहणं ज्ञेयम् । क्षत्यभावमुपसंहरति --"अवयविन" इति । ___ अन्न चिन्तामणिकारादिनव्यनैयायिकानां मतमाह-"नव्यास्त्वि"ति । अयमेतेषामभिप्राय:-नानाजातीयरूपवत्कपालारब्धे घटे पीतकपालावच्छेदेन नीलापत्तिवारणाय न पूर्वोक्तः प्रतिबध्यप्रतिबन्धकभावः कल्प्यते, किन्त्ववच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलादेः कारणत्वं कल्प्यते । चित्ररूपाङ्गीकारे तु समवायेन नीलादिकं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलत्वादिना हेतुत्वस्य पूर्वोक्कप्रतिबध्यप्रतिबन्धकमावस्य च कल्पनागौरवमेव, तस्मान्न चित्रं रूपं पृथगस्ति । अत्र स्कन्दपुराणवाक्यं प्रमाणयितुमाह-"अत एवे"ति । "लोहितो यस्त्वि"ति । यद्याचार्यश्चित्रं रूपं पृथगमंस्यत तदा वृषोत्सर्गप्रकरणे “चित्रं वृषमुत्सृजेत्' इत्येवावक्ष्यदिति भावः । शङ्कते-"नचे'ति । परिहरति-"मानाभावादिति । ग्याप्यवृत्तिस्वभावा रूपाद्या नाव्याप्यवृत्तित्वावच्छेदेनोत्पद्यन्ते इत्यत्र प्रमाणाभाव इत्यर्थः । विरुद्धमिति क्व नः सम्प्रत्ययो यत्प्रमाणासहिष्णु भवेत् , यत्तु प्रमाणेन यथोपलभ्यते तत्तथा सम्भावितविरोधमपि कथं वस्तुतो विरुद्धं स्यात् ? अन्यथासकलप्रमाणव्यवहारानाश्वासप्रसङ्गः स्यादिति भावः । पुनराक्षिप्य प्रतिक्षिपति-"नच" इत्यारम्य "अनुभवविरोधाद्" इत्यन्तेन । एकरूपम्-चित्रमित्यर्थः । "अयं नीलाद्यनेकवर्णयुकोऽवयवी" इत्यनुभवविरोधादित्यर्थः । विपक्षे प्रतिवन्दीमप्याह-"अन्यथे" ति । उनन्यायं चित्रस्पर्शादिखण्डनेऽप्यतिदिशति-"एतेने"ति । “वदन्ति" इतिकथनेन नेदं स्वमतमिति सूचितम् ।। १०० ॥ (का०) जलादिपरमाणौ तन्नित्यमन्यत्सहेतुकम् ॥
(मु०) जलादीति । जलपरमाणौ तेजःपरमाणौ च रूपं नित्यम् । पृथिवीपरमाणुरूपं तु न नित्यं तत्र पाकेन रूपान्तरोत्पत्तेः। नहि घटस्य पाकानन्तरं तदवयवोऽपक्व उपलभ्यते । नहि रक्तकपालस्य कपालिका नीलावयवा भवति । एवं क्रमेण परमाणावपि पाकसिद्धेः। अन्यज्जलतेजःपरमाणुरूपभिन्नं रूपं सहेतुकं जन्यम् ।
(प्र० टी० ) “जलादी"तिकारिकांशं न्याख्याति-"जलपरमाणावि"ति । अवार्थे पारमर्षे सूत्रे अपि भवतः- "पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च" ( वै०। अ० ७ । प्रा० १ । सू०२ ) "अनित्येष्वनित्या द्रव्यानित्यत्वात्" (अ० ७ । श्रा० १ । सू०५) इति । ननु-नित्ये द्रव्ये यदि नित्या रूपादय: कथं तर्हि पृथिवीपरमाणौ रूपाद्या अनित्या अङ्गीकृताः! इति शङ्कायां सिद्धान्तबीजं दर्शयति--"पृथिवीपरमाणुरूप" मित्यादि । स्पष्टमन्यत् । (का०) रसस्तु रसनाग्राह्यो मधुरादिरनेकधा ॥ १०१॥