________________
रसगन्धस्पर्शानां निरूपणम्।
08
. सहकारी रसज्ञाया नित्यतादि च पूर्ववत् ।। (प्र० टी० ) क्रमप्राप्तं रसं निरूपयति-परममूले "रसस्त्वि "ति । 'रसनाग्राह्यो गुणो रस' इति लक्षणम् । रसत्वे रसाभावेचातिव्याप्तिवारणाय "गुण" पदम् । रसक्षायाः जिह्वायाः, सहकारी सहायकः । रासनज्ञाने सहकारिकारणमित्यर्थः । पूर्ववत्-नित्यानित्यत्वे च पूर्ववदित्यर्थः । जनपरमाणौ रसो नित्यः जन्यजलप्रथिन्योबानिल इत्यर्थः।
(मु.) रसं निरूपयति-रसस्त्विति । सहकारीति । रासनमाने रसः कारणमित्यर्थः। पूर्ववदिति । जलपरमाणौ रसो नित्योऽन्यः सर्क ऽपि रसोऽनित्य इत्यर्थः॥
"रसस्त्विती"ति--स्पष्टम् । [का०] घाणग्राह्यो भवेद्गन्धो घ्राणस्यैवोपकारकः ॥१.२॥
(मु० )घाणग्राह्य इति । उपकारक इति । घ्राणजन्यशाने कारणमि. त्यर्थः । सर्वो गन्धोऽनित्य एव ॥ १०१ ॥ १०२॥
सौरभश्चासौरभश्च स द्वेधा परिकीर्तितः । (प्र. टी. ) गन्धं निरूपयति--"घ्राणग्राह्य" इति । "प्राणप्रायो मुखो गन्ध" इत्यर्थः । गन्धत्वेऽतिग्याप्तिवारणाय "गुण"पदम् । स्पष्टमन्यत्। "सौरभस्त्वि ". ति-स गन्धो द्वेधा द्विप्रकारकः । सौरभः सुरभिः । "प्रशादिभ्यश्च" (पाणि. ५।४।३८) इति सूत्रेण स्वार्थेऽण् । (का०) स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचा स्यादुपकारका ॥१०३॥
(मु०)स्पर्श निरूपयति-स्पर्श इति । उपकारक इति । स्पार्शनप्रत्यक्ष स्पर्शः कारणमित्यर्थः ॥ १०३॥
(प्र० टी० ) "स्पर्शस्त्वि"ति--"त्वगिन्द्रियमानमायो गुण: स्पर्श" इत्यर्थः । स्पर्शस्वेऽतिम्याप्तिवारणाय "गुण"पदम् । संयोगादावतिम्याप्तिवारणाय "मात्र"पदम् । (का०) अनुष्णाशीतशीतोष्णभेदात्स त्रिविषो मतः ।
काठिन्यादि चितावेव नित्यतादि च पूर्ववत् ॥१०॥ (मु०) अनुष्णाशीतेति । पृथिव्यां वायौ च स्पर्शोऽनुष्णाशीतः। जले शीतः। तेजस्युष्णः । काठिन्येति । कठिनसुकुमारस्पर्शी पृथिव्यामेवेत्यर्थः। कठिनत्वादिकं तु न संयोगगतो जातिविशेषः, चक्षुर्याहत्वापत्तेः। पूर्ववदिति । जलतेजोवायुपरमाणुस्पर्शा नित्यास्तद्भिन्नास्त्वनित्या इत्यर्थः ॥ १०४॥
(प्र. टी.) स्पर्शभेदानाह-"अनुष्णाशीते"ते परममूले । “कठिनत्वा