________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ गुणग्रन्यै
दिक" मिति -- आदिपदात्कोमलश्च स्पर्शः पृथिव्यामेव । " कठिनः संयोग " इति प्रतीतिस्तु कठिनस्पर्शवद्द्द्रव्यप्रतियोगिकत्वमेवावगाहत इति भावः । स्पष्टमन्यत् ॥ १०४॥ [का०] एतेषां पाकजत्वं तु चितौ नान्यत्र कुत्रचित् ।
तत्रापि परमाणौ स्यात्पाको वैशेषिके नये ।। १०५ ।।
३८०
1
( मु० ) एतेषामिति । एतेषां रूपरसगन्धस्पर्शानाम् । नाम्यत्रेति । पृथिव्यां हि रूपरसगन्धस्पर्शपरावृत्तिरग्निसंयोगादुपलभ्यते । नहि शतधापि मायमाने जले रूपादिकम्पपरिवर्तते । नीरे सौरभमौष्ण्यं चान्वयव्यतिरेकाभ्यामौपाधिकमेवेति निर्णीयते । पवनपृथिव्योः शीतस्पर्शादिवत् । तत्रापि पृथिवीष्वपि मध्ये परमाणावेव रूपादीनां पाक इति वैशेषिका वदन्ति ।
( प्र० टी० ) रूपरसादिषु विशेषान्तरमप्याह - " एतेषामिति । अन्वयव्यतिरेकाभ्यामिति — पृथिवीसत्त्वे सौरभभानं पृथिन्यभावे सौरभभानाभाव इत्यम्वयव्यतिरेकौ ताभ्यामित्यर्थः । *वैशेषिके नये = पीलुपाकवादिमते । एषामयमाशयः -- पाकार्थमपको यदा महानसे निधीयते तदा तदन्तः प्रविष्टाभिर्वेगवदग्निज्वालाभिरवयवविभागेन पूर्वावयवसंयोगे विनष्टे “श्रसमवायिकारणविनाशाद्भावकार्यवि नाश" इति नियमात् श्यामघटे नष्टे पुनः परमाणुषु रक्तरूपोत्पत्या द्व्यणुकादिक्रमेण रक्तघटोत्पत्तिर्भवति इत्याशयेनैव " तेषा मयमाशय" इत्याद्यग्रिमं प्रन्थमवतारयति । पाको रूपादीनां परावृत्तिः ।
( मु० ) तेषामयमाशयः । श्रवयविनाऽवष्टब्धेष्ववयवेषु पाको न सम्भवति, परन्तु वह्निसंयोगेनावयविषु विनष्टेषु स्वतन्त्रेषु परमाणुषु पाकः । पुनश्च पक्कपरमाणु संयोगाद्द्द्वयणुकादिक्रमेण पुनर्महावयविपर्य न्तमुत्पत्तिः । तेजसामतिशयित वेगवशात्पूर्वव्यूहनाशो झटिति व्यूहान्तरोत्पत्तिश्चेति ।
9
( प्र० टी० ) अधस्ताद्वयाख्यातप्रायमपि किचिद्वयाक्रियते - श्रवयविना-घटपटादिना श्रवष्टब्धेषु - आवृतेषु निरुद्धेषु वा श्रवयवेषु = कपालादिषु, पाक:-रूपपरावृत्तिहेतुस्तेजः संयोगः, न सम्भवति = नाईत्येव भवितुमित्यर्थः । प्रतिबन्धे सति कथं पाकः स्यात् ? । अर्थात् रूपादिनाशं प्रति साक्षात्परम्परया साधारणत: सर्वावयबावच्छेदेन कारणत्वम् तेनावयविनावरुद्धेषु श्रवयवेषु श्रवयविनि पूर्वरूपनाशः कथं स्यात् । कथञ्च तदनाशे रूपान्तरमुत्पद्येत, सर्वावयवावच्छेदेन तेजः संयोगभावादिति भावः । " श्रवयविषु विनष्टेष्वि " ति - घटाद्यारम्भककपालादिपरमाणुपर्यन्तेषु श्रग्नि
1
* द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः ॥