________________
पाकवादे णप्रक्रिया।
រ संयोगेन पूर्वोत्तरीत्या घटादिद्वयणुकपर्यन्तेषु नाशसम्भवादिति भावः। स्वतन्त्रेषुकार्यदन्यध्वंसविशिष्टेषु। ननु-तत्र संस्थानभेदादिः कथं न प्रतीयते इत्यत आह"तेजसा"मिति । व्यूहः संस्थानम् ।
(मु०) अत्र व्यणुकादिविनाशमारभ्य कतिभिः क्षणैः पुनरुत्पत्त्या रूपादिमद्भवतीति शिष्यबुद्धिवैशधार्थ क्षणप्रक्रिया।
(प्र० टी०) बुद्धिवैशद्यम्-स्फुटमुबोधः । ब्यणुकनाशादिरूपाद्युत्पत्तिक्षणनिरूपणं क्रियत इति शेषः।
(मु०) तत्र विभागजविभागानङ्गीकारे नवक्षणा । तदङ्गीकारे तु विभागः किश्चित्सापेक्षो विभागं जनयेत् । निरपेक्षस्य तत्त्वे कर्मत्वं स्यात्। संयोगविभागयोरनपेक्षं कारणं कर्मेति वैशेषिकसूत्रम् । स्वोत्तरोत्पन्नभावान्तरानपेक्षत्वं तस्यार्थः । अन्यथा कर्मणोऽप्युत्तरसंयोगोत्पत्तौ पूर्वसंयोगनाशापेक्षणादव्याप्तिः स्यात् । . (प्र० टी० ) "तो"ति-क्षणप्रक्रियायां विचार्यमाणायामित्यर्थः। विभागजविभागानङ्गीकारे-कारणाकारणविभागात् कार्याकार्यविभागवत् कारणमात्र विभागात् कारणाकारणविभागानङ्गीकार इत्यर्थः । द्रव्यारम्भकसंयोगप्रतिद्वन्द्विीवभागजनकक्रियायास्तदनारम्भकसंयोगप्रतिद्वन्द्विविभागाजनकस्वनियमे मानाभावादिति भावः। तदङ्गीकारे-विभागाङ्गीकारे । विभाग: किञ्चित्सापेक्षः स्वसमवायिनिष्ठक्रियासापेक्ष इत्यर्थः । तत्त्वे विभागजनकत्वे, कर्मस्वं स्यात् कमलक्षणस्यातिव्याप्तिः स्यात्, अर्थात् पदार्थान्तरनिरपेक्षतया विभागजनकन्त्वकं कमैवास्ति नान्यत्। अन्न विषयेऽर्थतः कणादसूत्रं पठति-"संयोगविभागयो"रिति । सूत्रन्तु-एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम्, (वै० १।१।१६) सूत्रस्थं लक्षणं निष्कर्षयति-"स्वोत्तरोत्पन्ने"ति। "स्व" पदेन कर्मग्रहणम् । यदा कर्म संयोगं वा विभागं वा जनयति तदा स्वोत्तरभाविनः पदार्थान्तरस्यापेक्षा न करोति, तमारपूर्वसंयोगनाशसापेवत्वेऽपि नाम्याप्तिरिति भावः ।
(मु०) तत्र यदि द्रव्यारम्भकसंयोगविनाशविशिष्टं कालमपेक्ष्य विभागजविभागः स्यात्तदा दशक्षणा । अथ द्रव्यनाशविशिष्टं कालमपेक्ष्य विभागजविभागः स्यात्तदैकादशक्षणा ।
(प्र. टी.) तत्र अस्मिन्प्रकरण इति फलितार्थः । “द्रव्यारम्भके"ति-- द्वयणुकादि यद् द्रव्यं, तदारम्भको यः संयोगः, तस्य यो विनाशो ध्वंस:, तेन विशिष्टः उपबक्षित इत्यर्थः, तं कालमपेचय यदि विभागजविभागः स्यात् तदा दशक्षणा प्रक्रिया भवति । अर्थात् तदा अवयविद्रव्यं पुनर्दशसु क्षणेषु रूपादिमन्द्रवति । अथ प्रारम्भकसंयोगध्वंसमनपेक्ष्य तत्स्थाने ब्रम्यध्वंसविशिष्टं काखमपेक्ष्य विचारणा स्यात् तदैका