________________
३८२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्रावश्याः
[ गुणग्रन्थे
दशक्षणा प्रक्रिया |
( मु० ) तथा हि- अथ नवक्षणा । वह्निसंयोगात्परमाणौ कर्म । ततः परमाण्वन्तरेण विभागः । तत श्रारम्भकसंयोगनाशः । ततो द्वयणुकनाशः । १ । ततः परमाणौ श्यामादिनाशः । २ । ततो रक्ताद्युत्पत्तिः । ३। ततो द्रव्यारम्भानुगुणा क्रिया । ४ । ततो विभागः । ५ । ततः पूर्वसंयोगनाशः | ६ | तत आरम्भकसंयोगः । ७ । ततो द्वयणुकोत्पत्तिः । ८। ततो रक्ताद्युत्पत्तिः । ६ ।
( प्र० टी० ) तामेतां प्रक्रियां नवादिक्षणप्रक्रमेण वर्णयितुमाह – " तथाही " ति । वह्निसंयोगात्=पाकादित्यर्थः । परमाणौ कर्म = दूधणुकारम्भकपरमा वोर्मध्ये एकस्मिन् परमाणौ कर्म अथवा परमाणुये कर्म । परमाण्वन्तरेण= द्वथणुकारम्भकपरमाण्वन्तरेण विभाग: । “आरम्भके" ति - - द्वयणुकारम्भकेत्यर्थः । " ततः परमाणावि” तिपरमाणुगतरूपनाशं प्रति द्वयणुकात्मकद्रव्यस्य प्रतिबन्धकतया तत्पूर्वश्यामनाशासम्भवादिति भावः । प्रथम क्षणस्य गणना तु सर्वत्र द्वथणुकनाशमारभ्यैव कर्त्तव्या " द्वणुकविनाशमारभ्ये”ति श्रधस्तात्स्वयमुक्लत्वात् । शिष्टं स्पष्टम् ।
( मु० ) ननु श्यामादिनाशक्षणे रक्तोत्पत्तिक्षणे वा परमाणौ द्रव्यारम्भानुगुणा क्रियास्त्विति चेन्न, अग्निसंयुक्ते परमाणौ यत्कर्म तद्विनाशमन्तरेण गुणोत्पत्तिमन्तरेण च परमाणौ क्रियान्तराभावात्कर्मवति कर्मान्तरानुत्पत्तेर्निर्गुणे द्रव्ये द्रव्यारम्भानुगुणक्रियानुपपत्तेश्च । तथापि परमाणौ श्यामादिनिवृत्तिसमकालं रक्ताद्युत्पत्तिः स्यादिति चेन्न, पूर्वरूपादिध्वंसस्यापि रूपान्तरे हेतुत्वात् । इति नवक्षणा ॥
( प्र० ( ० ) शङ्कते – “ नन्वि" ति इस्यर्थः । रक्तोत्पत्तित्क्षणे = तृतीयक्षणे इत्यर्थ:
। श्यामादिनाशक्षणे = द्वितीयक्षण
66
'द्रव्यारम्भे " ति - द्वयणुकादि
66
द्रव्योत्पत्यनुकूला क्रिया = कर्मेत्यर्थः । खण्डयति – “नेति”। 'अग्निसंयुक्त' इति । तेज:संयुक्ने परमाणौ यत्कर्म, तद्विनाशमन्तरेण = तस्य विनाशं विना । द्वथणुकविनाशोत्पत्तित्क्षणोत्पत्तिकोत्तरसंयोगेन श्यामनाशक्षण एव पूर्वक्रियानाश इति भावः । तत्र हेतुमाह-- " कर्मवती " ति । कर्मान्तरानुदयेन कर्मोत्पत्तौ कर्मणः प्रतिबन्धकत्वकल्पनादिति भावः । गुणोत्पत्तिमन्तरेण कर्मानुत्पत्तौ हेतुमाह – “निर्गुण " इति । पुनः शङ्कते – “ तथापी " ति । समाधत्ते – “ नेति " । पूर्वरूपसत्वं रूपान्तरोत्पत्तिप्रतिबन्धकमिति भावः । इति नवक्षणा प्रक्रिया |
-
"
( मु० ) अथ दशक्षणा । सा च आरम्भकसंयोगविनाशविशिष्टं कालमपेक्ष्य विभागेन विभागजनने सति स्यात् । तथा हि । वह्निसंयोगाद् द्वयणुकारम्भके परमाणौ कर्म । ततो विभागः । तत श्रारम्भकसंयोग