________________
पाकवादे पणप्रक्रिया।
५८१
नाशः । ततो द्वयणुकनाशविभागजविभागौ। १ । ततः श्यामनाशपूर्वसंयोगनाशौ । २ । ततो रनोत्पत्त्युत्तरसंयोगौ। ३ । ततो वह्निनोदनजन्यप. रमाणुकर्मणो नाशः। ४ । ततोऽदृष्टवदात्मसंयोगाद् द्रव्यारम्भानुगुणा किया। ५। ततो विभागः । ६ । ततः पूर्वसंयोगनाशः । ७। तत श्रारम्भकसंयोगः । ८ । ततो द्वयणुकोत्पत्तिः। । । ततो रनोत्पत्तिः । १० ॥
(प्र. टी. ) दशक्षण प्रक्रियां वक्तुमारभते-"अथे" ति । पूर्वरीत्यैव व्याख्या. तन्यम् । स्पष्टश्च ।
[मु.] अथैकादशक्षणा । वह्निसंयोगात्परमाणौ कर्म । ततो विभागः। ततो द्रव्यारम्भकसंयोगनाशः । ततो द्वथणुकनाशः । १। ततो द्वयणुकनाशविशिष्टं कालमपेक्ष्य विभागजविभागश्यामनाशौ । २ । ततः पूर्वसंयोगनाशरकोत्पत्ती । ३। तत उत्तरसंयोगः। ४। ततो वह्निनोदनजन्यपरमाणुकर्मनाशः । ५ । ततोऽदृष्टवदात्मसंयोगाद् द्रव्यारम्भानुगुणा क्रिया।६। ततो विभागः । ७। ततः पूर्वसंयोगनाशः। ८ । ततो द्रव्यारम्भकोत्तरसंयोगः । । । ततो द्वयणुकोत्पत्तिः। १० । ततो रक्ताद्यत्पत्तिः। ११ इति ॥
(प्र० टी० ) एकादशक्षण प्रक्रियां वक्तुमारभते-“अथे"ति । स्पष्टम् । [मु.] मध्यमशब्दवदेकस्मादग्निसंयोगान्न रूपनाशोत्पादौ तावकालमेकस्यानरस्थिरत्वात् । किंच नाशक एव यदयुत्पादकस्तदा नष्टे रूपादावग्निनाशे नीरूपश्चिरं परमाणुः स्यात् । उत्पादकश्चन्नाशकस्तदा रक्तोत्पत्तौ तदग्निनाशे रक्ततरता न स्यात् ।।
(प्र० टी० ) ननु एकस्मादेव अग्निसंयोगात् पूर्वरूपनाशो रूपान्तरोत्पत्तौ च लाघवमेवानुसतव्यं मित्याशङ्कायामाह-"मध्यमे"ति । अयमभिसन्धिः । यथा प्रादिममन्तञ्च शब्दं वर्जयित्वा मध्यमवर्तिनो यावन्तः शब्दाः तेषां स्वपूर्वशब्दनाशं प्रति, स्वोत्तरवर्तिशब्दोत्पतिं प्रति च हेतुभावोऽस्ति न तथा प्रकृते एकस्यैवामिसंयोगस्य पूर्वरूपनाशं रूपान्तरोत्पत्तिम्प्रति च कारणता । अत्रार्थे हेतुमाह-"तावत्कालमि"त्यादि। युक्त्यन्तरमप्याचष्टे-"किञ्चे"ति। स्पष्टमन्यत् । “रक्ततरते"तिरूपनाशकतावच्छेदकं विलक्षणाग्निसंयोगत्वं तदेव यदि उत्पादकतावच्छेदकम् ? तदा कार्यतावच्छेदकमपि सामान्यरूपेण पृथिवीपरमाणुरूपत्वं स्वीकर्त्तव्यं भवता, तथासति क्वचिद्रनतरता क्वचिद्रनतमतेति वैचित्र्यं परमाणौ न स्यात् कार्यवैचित्र्यस्य कारणतावच्छेदकभेदायत्तत्वादिति भावः।
(मु०) अथ परमाण्वन्तरे कर्मचिन्तनात्पञ्चमादिक्षणेऽपि गुणोत्पत्तिः । तथाहि-एकत्र परमाणौ कर्म । ततो विभागः । तत प्रारम्भक