Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 409
________________ पाकवादे णप्रक्रिया। រ संयोगेन पूर्वोत्तरीत्या घटादिद्वयणुकपर्यन्तेषु नाशसम्भवादिति भावः। स्वतन्त्रेषुकार्यदन्यध्वंसविशिष्टेषु। ननु-तत्र संस्थानभेदादिः कथं न प्रतीयते इत्यत आह"तेजसा"मिति । व्यूहः संस्थानम् । (मु०) अत्र व्यणुकादिविनाशमारभ्य कतिभिः क्षणैः पुनरुत्पत्त्या रूपादिमद्भवतीति शिष्यबुद्धिवैशधार्थ क्षणप्रक्रिया। (प्र० टी०) बुद्धिवैशद्यम्-स्फुटमुबोधः । ब्यणुकनाशादिरूपाद्युत्पत्तिक्षणनिरूपणं क्रियत इति शेषः। (मु०) तत्र विभागजविभागानङ्गीकारे नवक्षणा । तदङ्गीकारे तु विभागः किश्चित्सापेक्षो विभागं जनयेत् । निरपेक्षस्य तत्त्वे कर्मत्वं स्यात्। संयोगविभागयोरनपेक्षं कारणं कर्मेति वैशेषिकसूत्रम् । स्वोत्तरोत्पन्नभावान्तरानपेक्षत्वं तस्यार्थः । अन्यथा कर्मणोऽप्युत्तरसंयोगोत्पत्तौ पूर्वसंयोगनाशापेक्षणादव्याप्तिः स्यात् । . (प्र० टी० ) "तो"ति-क्षणप्रक्रियायां विचार्यमाणायामित्यर्थः। विभागजविभागानङ्गीकारे-कारणाकारणविभागात् कार्याकार्यविभागवत् कारणमात्र विभागात् कारणाकारणविभागानङ्गीकार इत्यर्थः । द्रव्यारम्भकसंयोगप्रतिद्वन्द्विीवभागजनकक्रियायास्तदनारम्भकसंयोगप्रतिद्वन्द्विविभागाजनकस्वनियमे मानाभावादिति भावः। तदङ्गीकारे-विभागाङ्गीकारे । विभाग: किञ्चित्सापेक्षः स्वसमवायिनिष्ठक्रियासापेक्ष इत्यर्थः । तत्त्वे विभागजनकत्वे, कर्मस्वं स्यात् कमलक्षणस्यातिव्याप्तिः स्यात्, अर्थात् पदार्थान्तरनिरपेक्षतया विभागजनकन्त्वकं कमैवास्ति नान्यत्। अन्न विषयेऽर्थतः कणादसूत्रं पठति-"संयोगविभागयो"रिति । सूत्रन्तु-एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम्, (वै० १।१।१६) सूत्रस्थं लक्षणं निष्कर्षयति-"स्वोत्तरोत्पन्ने"ति। "स्व" पदेन कर्मग्रहणम् । यदा कर्म संयोगं वा विभागं वा जनयति तदा स्वोत्तरभाविनः पदार्थान्तरस्यापेक्षा न करोति, तमारपूर्वसंयोगनाशसापेवत्वेऽपि नाम्याप्तिरिति भावः । (मु०) तत्र यदि द्रव्यारम्भकसंयोगविनाशविशिष्टं कालमपेक्ष्य विभागजविभागः स्यात्तदा दशक्षणा । अथ द्रव्यनाशविशिष्टं कालमपेक्ष्य विभागजविभागः स्यात्तदैकादशक्षणा । (प्र. टी.) तत्र अस्मिन्प्रकरण इति फलितार्थः । “द्रव्यारम्भके"ति-- द्वयणुकादि यद् द्रव्यं, तदारम्भको यः संयोगः, तस्य यो विनाशो ध्वंस:, तेन विशिष्टः उपबक्षित इत्यर्थः, तं कालमपेचय यदि विभागजविभागः स्यात् तदा दशक्षणा प्रक्रिया भवति । अर्थात् तदा अवयविद्रव्यं पुनर्दशसु क्षणेषु रूपादिमन्द्रवति । अथ प्रारम्भकसंयोगध्वंसमनपेक्ष्य तत्स्थाने ब्रम्यध्वंसविशिष्टं काखमपेक्ष्य विचारणा स्यात् तदैका

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486