Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 418
________________ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [णम माणान्तरस्य प्रत्यक्षसिद्धत्वादिति वाख्यम्, परमाणुविश्लेषे हि व्यणुकस्य नाशोऽवश्यमभ्युपेयस्तन्नाशे च त्रसरेणुकनाशः एवं क्रमेण महा. वयविनो नाशस्यावश्यकत्वात् । सति च नाशकेऽनभ्युपगममात्रण नाशस्यापलपितुमशक्यत्वात् । शरीरादाववयवोपचयेऽसमवायिकारणनाशस्यावश्यकत्वावयविनाश आवश्यकः । (प्र. टी.) परिमाणस्य नाशकमाह-"नाशस्त्वि "ति । श्राश्रयस्य: परिमाणाधारस्य द्रव्यस्य नाशतो नाशात् परिमाणस्य नाश इति कारिकांशार्थः । तद्विवृणोति-"परिमाण"मित्यादिना मूले । अत्र शङ्कते–“नचे"ति । समाधत्ते -"परमाणुविश्लेषही"ति । बाल्यशरीरस्य यौवने विनाशः, यौवनशरीरस्य वार्धक्ये विनाश इति तस्यानित्यत्वेनानात्मत्वं पूर्वमुक्तं स्पष्टीकुर्वन्निवाह-"शरीरीदावि"ति। य (मु०) नच पटादिविनाशेऽपि तन्त्वन्तरसंयोगात्परिमाणाधिक्यं न स्यादिति वाच्यम्, तत्रापि वेमाद्यभिघातेनासमवायिकारणतन्तुसंयोगनाशात्पटनाशस्यावश्यकत्वात् । किञ्च तन्त्वन्तरस्य तत्पटावयवत्वे पूर्व तत्पट एव न स्यात्तन्त्वन्तररूपकारणाभावात् । तन्त्वन्तरस्यावयवत्वाभावे च न तेन परिमाणाधिक्यं संयुक्तद्रव्यान्तरवत् । तस्मात्तत्र तन्त्वन्तरसंयोगे सति पूर्वपटनाशस्ततः पटान्तरोत्पत्तिरित्यवश्यं स्वीकार्यम्। अवयविनः प्रत्यभिज्ञानं तु साजात्येन दीपकलिकादिवत् । नच पूर्वतन्तव एव तन्त्वन्तरसहकारात्पूर्वपटे सत्येव पटान्तरमारभन्तामिति वाच्यम् । मूर्तयोः समानदेशताविरोधात्तत्र पटद्वयासम्भवादेकदा नानाद्रव्यस्य तत्रोपलम्भस्य बाधितत्वाच्च । तस्मात्पूर्वद्रव्यस्य प्रतिबन्धकस्य विनाशे द्रव्यान्तरात्पत्तिरित्यवश्यमभ्युपेयत्वात् ॥ (प्र० टी० ) शङ्कते-"नचे"ति। समाधत्ते-"तत्रापी"ति । वेमा वायदण्डः, तस्याभिघातेन अभिघाताख्यसंयोगेन। शब्दनिमित्तकारणं संयोगिनोः परस्परविभागहेतुक्रियाजनकः संयोगोऽ"भिघात" इत्यवोचाम । अत्रैव युक्तयन्तरं दर्शयति-तन्त्वन्तरस्ये"ति । यदा तन्त्वन्तरसंयोगस्तदा न पूर्वपट: किन्तु ततोऽन्य एव । गूढाभिसन्धिमानाह-"तन्त्वन्त्वरस्ये"ति । सिद्धान्तमुपसंहरति-"तस्मादि"ति । ननु-"स एवायं पट" इति कथं प्रत्यभिज्ञा ? यदि पूर्वपटनाश इस्यत अाह-- "अवयविन" इति । "सैवेयदीपकलिके"तिवत् प्रत्यभिज्ञानं न विरुध्यत इति भावः । मूर्तयोः समानदेशे सहानवस्थानलक्षणं विरोधमनाकलव्य भ्रान्तः शङ्कते"नच पूर्वतन्तव" इति । सिद्धान्ती विरोधं विद्वान् उत्तरयति-"मूर्तयो"रिति । युक्स्यन्तरमाह-"एकदेति । प्रकरणमुपसंहरति-"तस्मादि"ति । (का०) सङ्ख्यावत्तु पृथक्त्वं स्यात्पृथक्प्रत्ययकारणम् ॥११३॥

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486