Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 416
________________ ३८८ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्या: "श (मु०) अपेक्षाबुद्धिः केत्यत श्राह-अनेकेति । अयमेकोऽयमेक इत्याकारिका इत्यर्थः । इदं तु वोध्यम् । यत्रानियतैकत्वज्ञानं तत्र त्रित्वादिभिन्ना बहुत्वसङ्ख्योत्पद्यते यथा सेनावनादाविति कन्दलीकारः । प्राचार्यास्तु त्रित्वादिकमेव बहुत्वं मन्यन्ते । तथा च त्रित्वत्वादिव्यापिका बहुत्वत्वजाति तिरिच्यते । सेनावनादावुत्पन्नेऽपि त्रित्यादौ त्रित्वत्वाद्यग्रहो दोषात् । इत्थं चेतो बहुतरेयं सेनेति प्रतीतिरुपपद्यते । बहुत्वस्य सङ्ख्यान्तरत्वे तु तत्तारतम्याभावानोपपद्यतेत्यवधेयम् ॥ (प्र० टी०) प्रसङ्गादपेक्षाबुद्धिं निरूपयति-"अनेकैत्वे"ति-परममूले । तद्विवरीतुमाह-"अनेकेती"ति परिमाणं निरूपयति-अयमेक' इभिनीय दर्शयति । तत्तव्यक्तिमाननिष्ठेदन्त्वावच्चिन्नविशेष्यतानिरूपितैकत्वप्रकारताशालिनी बुद्धिरपेक्षाबुद्धि. पदार्थ इति भावः। (का०) परिमाणं भवेन्मानव्यवहारस्य कारणम् ॥ १०६॥ (मु०) परिमाणमिति । परिमितिव्यवहारासाधारणं कारणं परिमाणमित्यर्थः ॥ १० ॥ (प्र० टी० ) परिमाणं लक्षयति-परममूले "परिमाणमि"ति । कारिकास्थं लक्षणं निष्कर्षयति-"परिमिती"ति। परिमाणत्वसामान्यवत् परिमाणमित्यर्थः । (का०) अणु दीर्घ महद्धस्वमिति तद्भेद ईरितः। (मु०) तच्चतुर्विधं अणु महद् दीर्घ हस्व चेति-- (का०) अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ॥११०॥ सङ्ख्यातः परिमाणाच प्रचयादपि जायते । (प्र. टी.) "अएिव"*ति-स्पष्टम् । चतुर्विधमपि परिमाणं सामान्यतो द्विविधं नित्यमनित्यश्चेति । नित्यं परमाणौ । तदेव "पारिमाण्डल्य" मित्युक्तं प्राक् ।। अनित्यमपि त्रिविधं सङ्ख्याजन्यं, परिमाणजन्यं, प्रचयजन्यञ्चेति, इत्याशयवानाह-परममूले "सङ्ख्यात" इति। ___(मु०) तत्परिमाणम् । नित्यमित्यत्र. परिमाणमित्यनुषज्यते । जायत * अणुत्वं जातिविशेषस्तद्वदणु । भाडास्तु परमाणुध्यणुकयोरभावान्नास्त्यणुःवन् । गगनादौ प्रमाणाभावान्नास्त्येव परममहत्वमिति वदन्ति । लीलावतीकारस्तु हस्वत्वदीर्घत्वे न परिमाणान्तरे किन्त्वणुत्वमहत्वयोरेवावान्तरविशेषावित्याह । अधिकं पदार्थरत्नमालायामुक्तम् । + प्राक् प्रत्यक्षपरिच्छेदे " पारिमाण्डल्यभिन्नाना" मिति १५ कारिकायां तद्व्या. ख्यायाश्चेति ।

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486