Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 417
________________ परिमाणनिरूपणम् । •mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm इत्यत्रापि परिमाणमित्यनुवर्तते । अनित्यमिति पूर्वेणान्वितम् । तथा चानित्यपरिमाणं सङ्ख्याजन्यं परिमाणजन्यं प्रचयजन्यं चेत्यर्थः॥ (प्र० टी० ) तत्परिमाणमित्यादि व्याख्यातमिव । (का०) अनित्यं द्वयणुकादौ तु सङ्ख्याजन्यमुदाहतम् ॥१११॥ [मु.] तत्र सङ्ख्याजन्यमुदाहरति--अनित्यमिति । यणुकस्य त्रसरेणोश्च परिमाणं प्रति परमाणुपरिमाणं द्वयणुकपरिमाणं वा न कारणं परिमाणस्य स्वसमानजीतोयोत्कृष्टपरिमाणजनकत्वात् । द्वयणुकस्याणुपरिमाणं तु परमारवणुत्वापेक्षया नोत्कृष्टम् । त्रसरेणुपरिमाणं तु न सजातीयम् । अतः परमाणौ द्वित्वसङ्ख्या द्वयणुकपरिमाणस्य, द्वयणुके त्रित्वसङ्ख्या च त्रसरेणुपरिमाणस्यासमवायिकारणमित्यर्थः ॥ ११०॥ १११॥ . (प्र० टी०) सङ्ख्याजन्यमुदाहरति "द्वयणुकादा"विति । सङ्ख्यामात्रजन्यमित्यर्थः। द्वयणुकपरिमाणं परमाणुगतद्वित्वसङ्ख्याजन्यं, त्रसरेणुगतं महत्परिमाणं द्वयणुकगतत्रित्वसङ्ख्याजन्यमित्यर्थः। ननु-द्वयणुकपरिमाणं प्रति परमाणुपरिमाणं, व्यणुकपरिमाणं प्रति द्वयणुकपरिमाणं वा कारणमस्त्वित्याशङ्क्याह-मूले "द्वयणुकस्येति । "स्वसमानजातीये"ति । विस्तृतं व्याख्यातं प्रत्यक्षखण्डे । स्पष्टमन्यत् । (का०) परिमाणं घटादौ तु परिमाणजमुच्यते । प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ॥११२॥ परिमाणं तूलकादौ(मु०) परिमाणजन्यं परिमाणमुदाहरति--परिमाणं घटादाविति । घटादिपरिमाणं कपालादिपरिमाणजन्यम् ॥ प्रचयजन्यमुदाहर्तुं प्रचयं निर्वक्ति प्रचय इति ॥ ११२ ॥ (प्र० टी० ) परिमाणअन्यम् = परिमाणमात्रजन्यमित्यर्थः । शिथिलत्वं संयो. गत्वव्याप्यो जातिविशेषः । अवयवानां परस्परमदृढतया योग: शिथिलसंयोगः तज्जन्यः “प्रचय" इत्यर्थः । तदुदाहरति--तृतीयं "तूलकादावि"ति । तूलकादिपरिमाणं समुच्छ्रायलक्षणं प्रचयजन्यामेत्यर्थः । तच्चानित्यम् । (का०) नाशस्त्वाश्रयनाशतः। (मु०) परिमाञ्चाश्रयनाशादेव नश्यतीत्याह । नाश इति । अर्थात्परिमाणस्यैब । नचावयविनाशः कथं परिमाणनाशकः सत्यप्यवयविनि त्रिचतुरादिपरमाणुविश्लेषे तदुपचये चावयविनः प्रत्यभिज्ञानेऽपि परि

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486