Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
- अपेक्षाबुद्धिनिरूपणम् ।
३८७
स्वोत्तरवर्तिगुणनाश्यत्वात् । तथाप्यपेक्षाबुद्धस्त्रितणावस्थायित्वं कल्प्यते । अन्यथा निर्विकल्पकालेऽपेक्षाबुद्धिनाशानन्तरं द्वित्वस्यौव नाशः स्यात् न तु द्वित्वप्रत्यक्षं, तदानीं विषयाभावत् । विद्यमानस्यैव चक्षुरादिना ज्ञानजननोपगमात् । तस्माद् द्वित्वप्रत्यक्षादिकमपेक्षाबुद्ध Hशकं कल्प्यते । नचापेक्षाबुद्धिनाशात्कथं द्वित्वनाश इति वाच्यम्, कालान्तरे द्वित्वप्रत्यक्षाभावात् । अपेक्षावुद्धिस्तदुत्पादिका तमाशात्तनाश इति कल्पनात्।।
(प्र० टी० ) ननु-ज्ञानत्वाविशेषादपेक्षाबुद्धिरपि द्विक्षणमात्रं तिष्ठस्वित्याशय तस्यास्त्रिक्षणस्थायित्वे मानमाह----" यद्यपि” इत्यारभ्य "कल्प्यते" इस्यन्तेन । इयश्च वैशेषिकप्रक्रिया " तस्याः खलु एकत्वेभ्याऽनकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाच्च विनाश' इत्यादिप्रशस्तमन्थादवसेया ।
अन्यथा = अपेक्षाबुद्धेस्त्रिक्षणावस्थायित्वानङ्गीकारे । द्वित्वप्रत्यक्षादिकम् = द्वित्वद्वित्वत्वयोनिर्विकल्पकं प्रत्यक्षमित्यर्थः । श्रादिना नित्वद्विपृथक्त्वादिपरिग्रहः । योग्यवि. भुविशेषगुणत्वस्य स्वत्वस्य चानुगतस्याभावेन स्वोत्तरोत्पन्नगुणत्वस्यानुगतस्याभावात् तद्वयक्तित्वेनैव नाश्यनाशकभावस्य वाच्यतया द्वित्वत्वरूपविशिष्टप्रत्यक्षकार्यानुरोधेन द्वित्वद्वित्वत्वनिर्विकल्पकप्रत्यक्षस्यैव तद्वयक्तित्वेनापेक्षाबुद्धिनाशकत्वं करप्यते नतु द्विती. यक्षणोत्पन्नस्मरणादेरिति भावः । शङ्कते-"नचे"ति । समाधत्ते-"कालाम्तरे"ति । स्पमन्यत् । __(मु०) अत एव तत्पुरुषीयापेक्षाबुद्धिजन्यद्वित्वादिकं तेनैव गृह्यत इति कल्प्यते । न चापेक्षाबुद्धेर्द्वित्वप्रत्यक्ष कारणत्वमस्त्विति वाच्यम्, लाघवेन द्वित्वं प्रत्येव कारणत्वस्यैवोचितत्वात् । अतीन्द्रिये द्वयणुका. दावपेक्षाबुद्धियोगिनाम् । सर्गादिकालीनपरमारवादावीश्वरीयापेक्षाधुद्धिब्रह्माण्डान्तरवर्तियोगिनामपेक्षाबुद्धिर्वा द्वित्वादिकारणमिति ॥ १८ ॥
(प्र० टी० ) उनयुक्त्या अपेक्षाबुद्धेर्द्वित्वोत्पादकत्वं स्वीकृतं यस्मात् तस्मादाह-"अत एवे"ति । चैत्रीयापेक्षाबुद्धिजन्यद्विस्वादिकं चैत्रेणैव गृह्यत इत्यर्थः । ननु-कालान्तरे द्वित्वप्रत्यक्षवारणाय द्वित्वप्रत्यक्ष प्रत्येवापेक्षाबुद्धेर्हेतुत्वमस्तु नतु द्वित्वं प्रतीत्याशङ्कते-"नचे"ति । समाधत्ते “लाघवेने"ति । द्वित्वप्रत्यवत्वापेक्षया द्वित्वत्वस्य कार्यतावच्छेदकस्य लघुत्वादिति भावः । व्यणुकस्यास्मदीयप्रत्यक्षागोचरत्वेनापेक्षाबुद्धयसम्भव इत्याशङ्कायामाह-"अतीन्द्रिय" इति । श्रादिना परमा. णुपरिग्रहः । सर्गादौ योगिनामभावादाह-"ईश्वरीये"ति । ईश्वरस्य निरतिशयसार्वश्यबीजवत्वादिति भावः।
(का०) अनेकैकत्वबुद्धिर्या साऽपेक्षाबुद्धिरिष्यते ।

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486