Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
पाकवादे णप्रक्रिया, सङ्ख्यालक्षणञ्च ।
३८५
.......................
गोत्पत्तिद्वयणुकोत्पत्तिरूपोत्पत्तयः तत्र द्विक्षणा (प्रक्रिया वाच्या)। एवं यत्रैकस्मिन् परमाणौ कर्मोत्पत्तिसमकालं परमाण्वन्तरे कर्मोत्पत्तिः तत्र चतुःक्षणापि भवति प्रक्रिया चेति चेन्न द्वयणुकनाशमन्तरेण परमाणौ श्यामादिनिवृत्तिः तामन्तरेण च रनोत्पत्तिर्न सम्भवतीत्युक्तप्रायम् । इत्थञ्च द्वयणुकनाशक्षणे परमाणुश्यामनाशक्षणे रनोत्पत्तिक्षणे वा घ्यणुकान्तरोत्पत्तौ द्वित्रिचतुःक्षणा प्रक्रिया वाच्या । नचैतेषु क्षणेषु घणुकान्तरोत्पत्ति: सम्भवति तथासति तत्पूर्वक्षणेषु परमाणोररक्तत्वेन तदारब्धद्वथणुकस्याप्यररक्क त्वप्रसङ्गादित्यन्यत्र विस्तर इति दिनकरी। (का०) नैयायिकानां तु नये द्वयणुकादावपीष्यते ।
(मु०) नैयायिकानामिति । नैयायिकानां मते यणुकादाववयवि. न्यपि पाको भवति । तेषामयमाशयः । अवयविनां सच्छिद्रत्वाद्वह्नः सूक्ष्मावयवैरन्तःप्रविष्टैरवयवेष्ववष्टब्धेष्वपि पाको न विरुद्धयते । अनन्तावावतन्नाशकल्पने गौरवात् । इत्थं च सोऽयं घट इत्यादिप्रत्याभिज्ञापि संगच्छते । यत्र तु न प्रत्यभिज्ञा तत्रावयविनाशोऽपि स्वीक्रियत इति ॥
(प्र० टी०) नैयायिकमतं दर्शयति-परममूले “नैयायिकान"न्त्विति । पिठरपाकवादिनां गोतमानुसारिणां नये = शास्त्रे, द्वयणुकादौ% अवयविन्यपि पाक: इष्यते= इष्टोस्तीत्यर्थः । तदेतद् विवृणोति-"नैयायिकानामिती"ति । अपि शब्दात्परमाणावपि चरमावयवे । एतेषामयमाशयः-अवयविनः सच्छिद्राः सन्ति तस्मात्तदन्तराग्निप्रवेशो निष्प्रतिबन्धः ततः अवयविनमारभ्य परमाणुपर्यन्तं पाको जायते । एवं निर्वाहे सति असङ्ख्यावयव्युत्पत्तिकल्पनायां गौरवमेव पालुपाकमते । श्रामघटान्तर्निक्षिप्तस्य जलस्य बहिर्भागे नतिरेव सच्छिद्रतायां मानमिति । अस्मिन्पक्षे गमकमप्याह-"इत्थञ्चे"ति । अवयविनाशानङ्गीकार इत्यर्थः । “यत्रत्वि"ति-अवयवसंयोगनाशस्य अवयविनाशं प्रति कारणत्वादिति भावः।
सङ्ख्या निरूपयितुमाह-- (का०) गणनाव्यवहारे तु हेतुः संख्याभिधीयते ॥ १०६॥
(मु०) गणनेति । गणनाव्यवहारासाधारणकारणं सङ्ख्येत्यर्थः ॥१०६॥
(प्र० टी० ) सङ्ख्यां निरूपयति-परममूले "गणने"ति । गणना = एकः द्वौ त्रय इत्यादि । व्यवह्रियतेऽनेनेति “व्यवहारो" ज्ञानम् । लौकिकप्रत्यक्ष प्रति हेतुरसाधारणं कारणमित्याशयेनाह--मूले "गणने"ति ।। (का०) नित्येषु नित्यमेकत्वमनित्येऽनित्यमिष्यते ।

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486