Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 424
________________ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्या [गुणप्रन्ये (मु०) क्रमप्राप्तां बुद्धिं निरूपयितुमाह-बुद्धेरिति । तत्राप्रमां निरूपयति । तच्छून्य इति । तदभाववति तत्प्रकारकं ज्ञानं भ्रम इत्यर्थः तत्प्रपञ्चोप्रमाप्रपञ्चः ॥१२५॥ ॥१२६ ॥ ॥१२७॥ (प्र० टी० ) बुद्धेः = ज्ञानस्य प्रपञ्चः= विस्तारः भेदप्रभेदादिः, अनुभूतिः स्मृतिश्चेति, अनुभूतिश्चतुर्विधा इत्येवमाकारः प्रायशो बाहुल्येन, प्रागेव % आत्मनिरूपणानन्तरमेव निरूपितो- वर्णित: तथापि प्रमाऽप्रमादिभेदेनावशिष्टः प्रकारः, अथ = अपेक्षाबुद्धिनिरूपणानन्तरं परिदर्श्यते - विविच्योच्यते इत्यर्थः । प्रतिज्ञानुसारं बुद्धि विभजते-"अप्रमे"ति । प्रमाऽप्रमाभेदेन ज्ञानं द्विविधमित्यर्थः । तन यथार्थानुभवः “प्रमा" । अयथार्थानुभवोऽ"प्रमा" । ननु-"बुद्धेरवशिष्टः प्रपञ्चः" इति प्रतिज्ञाय ज्ञानविभजने का प्रसङ्ग इति चेद ? बाढम् = परन्तु "बुद्धिरुपलब्धिनिमित्यनर्थान्तरम्” (न्या० १,११११) इति गोतमसूत्रेण तयोः पर्यायताप्रतिपादने ज्ञानविभागे वुद्धेरेव विभाग इति शब्दान्तरोपादानं न दोषावहम् । अप्रमां लक्षयति--"तच्छन्य"इति । शून्यपदमत्यन्ताभाववदर्थकम्, तथाच फलितमाह-भूले “तदभाववती"ति । अप्रमां विभजते-" तत्प्रपञ्च" इति । विपर्यासो विपर्ययो विरुद्धज्ञानमिति यावत् । संशयः सन्देहोपि, तत्पूञ्चः = अप्रमाप्रपञ्चः अप्रमाभेद इति यावत् । कश्चिदत्र तर्कोऽपि सङ्ग्रहीतः। तथाच संशयविपयर्यतर्क भेदादप्रमा विधेत्यर्थ इत्याह । जैनास्तु-"किमित्यालोचनमात्रमनध्यवसायः" यथा पथि गच्छतस्तृणस्पर्शादिज्ञानम् । इदं हि नानाकोटयनवलम्बनाभावान संशयः, विपरीतैककोटिनिश्चयाभावान्न विपर्यय इति पृथगेव, तद प्यप्रमैवेत्याहुः । १२५, १२६, १२७।। [का०] आयो देहेष्वात्मबुद्धिः शङ्खादौ पीततामतिः। भवेनिश्चयरूपा या(मु०) आद्य इति । विपर्यास इत्यर्थः । शरीरादौ निश्चयरूपं यदात्मस्वप्रकारकं ज्ञानं गौरोऽहमित्याकारकम् एवं शङ्खादौ पीतः शङ्ख इत्याकारकं यज्ज्ञानं निश्चयरूपं तद् भ्रम इति ॥ १२८ ॥ . (प्र० टी० ) विपर्यासादिभेदेषु प्रत्येकमुदाहरति--परममूले "श्राध" इति । अनात्मभूतं देहे श्रात्ममतिर्या स्वभावतः, शुक्ले शङ्ख “पीत: शङ्ख" इति ज्ञानञ्च निश्चयात्मकं विपर्ययो बोध्यः। एवमेव रज्जौ "अयं सर्प" इति सर्पज्ञानं, शुक्नौ "इदं रजत"मिति रजतज्ञानञ्च पिपर्ययस्थलम्। एतदभिप्रायेणैव मूले "शरीरादाविति । व्याख्याति । स्पष्टम् ।। [का०] संशयोऽथ प्रदर्श्यते ॥ १२८ ॥ किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशयः।

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486