Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 425
________________ निश्चयसंशयोःप्ररूपणम् । A तदभावाप्रकारा धीस्तत्प्रकारा तु निश्चयः ॥१२६॥ (मु०) किंस्विदिति। किंस्विदिति वितर्के । निश्चयस्य लक्षणमाह । तदभावेति । तदभावाप्रकारं तत्यकारं ज्ञानं निश्चयः॥ १२६ ॥ (प्र० टी० ) संशयमुदाहरति-="किंस्विदि"ति । दूरादुच्चैस्तरत्वं स्थाणुपुरुषसाधारणं धर्म दृष्ट्वा "किमयं स्थाणुः पुरुषो वे"ति उभयकोटथवगाहिज्ञानं जायते स संशयः । प्रसङ्गान्निश्चयं लक्षयति परममूले-"तदभावाप्रकारे"ति। तद्विवृणोति-- मूले "तदभावाप्रकारकमि"ति । संशयेऽतिव्याप्तिवारणाय "तदभावाप्रकारकमि"ति । निर्विकल्पकेऽतिव्याप्तिवारणाय "तत्प्रकारकमि"ति । (का०) स संशयो मतिर्या स्यादेकत्राभावभावयोः । साधारणादिधर्मस्य ज्ञानं संशयकारणम् ॥ ६३०॥ (मु०) संशयं लक्षयति-स संशय इति । एकधर्मिकविरुद्धभावाभावप्रकारकं ज्ञानं संशय इत्यर्थः। साधारणति । उभयसाधारणो यो धर्मस्तज्ज्ञानं संशयकारणम् । यथोच्चैस्तरत्वं स्थाणुपुरुषसाधारणं शात्वाऽयं स्थाणुन वेति संदिग्धे । एवमसाधारणधर्मज्ञानमपि कारणम् । यथा शब्दत्वस्य नित्यानित्यव्यावृत्तत्वेन शब्दे गृहीतत्वाच्छब्दो नित्यो न वेति सदिग्धे। विप्रतिपत्तिस्तु शब्दो नित्यो न वेत्यादिशब्दात्मिका न संशयकारणं, शब्दव्याप्तिज्ञानादीनां निश्चयमानजनकत्वस्वभावात् । किन्तु तत्र शब्देन कोटिद्वयज्ञानं जन्यते, संशयस्तु मानस एवेति । एवं ज्ञानप्रामाण्यसंशयाद्विषयसंशय इति । एवं व्याप्यसंशयादपि व्यापकसंशय इत्यादिकं बोध्यम् । किन्तु संशये धर्मिज्ञानं धर्मीन्द्रियसन्निकर्षों वा कारणमिति ॥ १३० ॥ (प्र० टी०) संशयं लक्षयति--परममूले “स संशय" इति । कारिकास्थं लक्षणं सामञ्जस्येन दर्शयति-मूले “एकर्मिके"ति । “एकर्मिविशेष्यक विरुद्धकोटिद्वयप्रकारकज्ञानवसंशयस्वं मित्यर्थः । हृदपर्वतौ वह्नितदभाववन्तौ इति ज्ञानेऽतिन्याप्तिवारणाय एकधर्मिकेति । एकधर्मितावच्छेदकविशिष्टविशेष्यकत्वावच्छिन्नेत्यर्थः । अथवा "क्षितिजले गन्धतदभाववती" इत्याद्याकारकज्ञानवारणाय एकधर्मिकेति। वृक्ष: कपिसंयोगी तदभाववांश्च'त्यादिवारणाय “विरुद्ध"ति । घटः क्षितिजलं चेति समुच्चयवारणाय "भावाभावे"ति । संशये हेतुमाह-"साधारणादिधर्मस्ये"ति परममूले । तब्याख्याति मुले--"उभयसाधाण" इति । श्रादिपदाद् असाधारणधर्मस्य ग्रहणम्, तज्ज्ञानमपि संशयस्य कारणम् । तत्र साधारणधर्मजन्यसंशयो यथा-"स्थाणुर्वा पुरुषो वे"ति । अत्र उच्चैस्तरत्वं धर्मः स्थाणुपुरुषसाधारणः । असाधारणधर्मजन्यो यथा-"शब्दो नित्योऽनित्योवे, त्यत्र

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486