Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुकावल्याः
[गुणग्रन्थे
संयोगनाशपरमाण्वन्तरकर्मणी। ततस्तु घणुकनाशः परमाण्वन्तरकमजन्यविभाग इत्येकः कालः १ । ततः श्यामादिनाशः । विभागाच्च पूर्वसंयोगनाशश्चेत्येकः कालः। २। ततो रक्तोत्पत्तिव्यारम्भकसंयोगश्वेत्येकः कालः । ३। अथ द्यणुकोत्पत्तिः । ४ ततो रक्तोत्पत्तिरिति ५॥ पञ्चक्षणा॥
(प्र. टी.) पञ्चक्षणां प्रक्रियां वक्तुमाह-"अथे"ति । परमाण्वन्तरे व्यणुकनाशकक्रियावत्परमाणुभिन्नब्यणुकारम्भकपरमाणावित्यर्थः । स्पष्टं शिष्टं पूर्ववज्ज्ञेयम् ।
(मु०) द्रव्यनाशसमकालं परमाण्वन्तरे कर्मचिन्तनात्षष्ठे गुणोत्पत्तिः । तथा हि-परमाणुकर्मणा परमाण्वन्तरविभागः । तत प्रारम्भकसंयोगनाशः। अथ द्यणुकनाशपरमाण्वन्तरकर्मणी । १ । अथ श्यामादिनाशः । परमाण्वन्तरकर्मजश्व विभागः । २। ततो रक्तोत्पत्तिः परमाएवन्तरे पूर्वसंयोगः। ४ । ततो घणुकोत्पत्तिः । ५। अथ रक्तोत्पत्तिरिति ६ षट्क्षणा।
(प्र० टी० ) षट्क्षणां प्रक्रियां वक्तुमाह-"द्रव्यनाशे"ति । “परमाणुकमणे"ति । अग्निसंयोगजन्यया परमाणुक्रिययेत्यर्थः । स्पष्टम् ।।
[मु.] एवं श्यामनाशक्षण परमाण्वन्तरेण कर्मचिन्तनात्सप्तक्षणा। तथा हि। परमाणौ कर्म, ततः परमाण्वन्तरेण विभागः । तत प्रारम्भकसंयोगनाशः । ततो घटकनाशः। १ । ततः श्यामादिनाशपरमाण्वन्तरक मणी । २ । ततो रक्तोत्पत्तिः परमाण्वन्तरे कर्मजविभागश्च । ३। ततः परमाण्वन्तरेण पूर्वसंयोगनाशः । ४ । ततः परमाण्वन्तरेण संयोगः । ५। ततो घणुकोत्पत्तिः । ६ । ततो रक्तोत्पत्तिः । ७ । इति सप्तक्षणा ॥
(प्र० टी० ) सप्तक्षणां प्रक्रियां वक्तुमाह-"एव"मिति । पूर्वरीत्यैव व्याख्येयम् । (मु०) एवं रक्तोत्पत्तिसमकालं परमाण्वन्तरे कर्मचिन्तनादष्टक्षणा । तथाहि-परमाणौ कर्म । ततः परमाण्वन्तरविभागः। तत पारम्भकसंयोगनाशः । ततो द्वयणुकनाशः । १। ततः श्यामनाशः । २। ततो रक्तोत्पत्तिपरमाण्वन्तरकर्मणी ।३। ततः परमाण्वन्तरकर्मजविभागः । ४ । ततः परमाण्वन्तरे पूर्वसंयोगनाशः । ५ । ततः परमाण्वन्तरसंयोगः । ६ । ततो व्यणुकोत्पत्तिः । ७ । अथ रक्तोत्पत्तिरित्यष्टक्षणा॥८॥१०॥
(प्र. टी.) अष्टक्षणां प्रक्रियां वक्रमाह-"एव"मिति । पूर्ववत् । ननु-यत्रैकस्मिन् परमाणौ अग्निसंयोगसमकालं परमाण्वन्तरे कर्मोत्पत्तिः तदुत्तरक्षणेषु क्रमेण एकव क्रियाविभागपूर्वसंयोगनाशद्रयणकनाशाः अपरत्र विभागपूर्वसंयोगनाशोत्तरसंयो

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486