Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 389
________________ तात्पर्यज्ञानस्य कारणतायामुपपत्तिप्रदर्शनम् । वियोगसाहचार्यादीनां * परिग्रहः । विवृतानि चैतानि काव्यप्रकाशादौ मत्प्रणीतकाव्यप्रकाशटीकायाञ्च । प्रकरणादीनां क्लुप्तनियतपूर्ववर्त्तिताकत्वेन अनन्यथासिद्धत्वमात्रकल्पने लाधवमस्तीति शङ्काकर्तुराशय: । समाधत्ते-'तेषामिति ।' अननुगमादिति-प्रकरणादीनामेकरूपेणानुगमाभावादित्यर्थः । तथाच परस्परजन्यशाब्दबोधे परस्परव्यभिचारेण न तेषां हेतुत्वसम्भवः, तात्पर्यस्य तु न कचिदपि व्यभिचार इति भावः । ननु-प्रकरणादान्यपि स्वस्वाधारणस्थले तात्पयानजनकानीति तात्पयज्ञानजनकत्वेन तेषामनुगमसम्भव इत्याशङ्कायामाह-'तात्पर्यज्ञानेति । सत्यमेव तथापि तथानुगमस्तेषां गुरुभूतः तदपेक्षया तात्पर्यज्ञानकारणतायां लाघवमेवेति भावः। ' इत्थञ्चे'ति-शब्दबोधत्वावच्छिन्नं प्रति तात्पर्यज्ञानस्य हेतुभावे सति । कल्प्यते = अनुमीयेत-तत्प्रकारश्चायम्-गां मा हिंसीः' 'स्वर्गकामो यजेत' इत्यादीनि वेदवाक्यानि वक्तृवाक्यार्थयथार्थज्ञानपूर्वकाणि वाक्यरचनात्वात् ' नदीतीरे पञ्चफलानि सन्ती' त्यास्मदाद्याप्तवाक्यरचनावत् । एवञ्च वैशेषिकस्य षष्ठाये न्यायस्य द्वितीयाये सप्तपञ्चाशत्तमसूत्रादौ निर्णीतमिति तत एव कणेहत्य निरीच्यम् । मीमांसकः शङ्कते-'नचेति । अध्यापकः कठादिः । नैयायिकः समाधत्ते–'सर्गादाविति । पुनर्मीमांसकः शङ्कते-'नचेति । नैयायिकः समाधत्ते-'प्रलयस्येति । कार्यद्रव्यानधिकरणकालविशेषात्मकखण्डप्रलयस्येत्यर्थः । 'नाहो न रात्रिन नभो न भूमिर्नासीत्तमो ज्योतिरभून्नचान्य' इत्यद्यागमो बोध्यः । इत्थञ्चेतितात्पर्यज्ञानस्य कारणत्व इत्यर्थः । 'शुकवाक्येपी'ति--यत्र शुकशारिकादिभिर्गचं पद्यं वोच्चारितं तत्र तेषां तात्पर्य तु न भवितुमर्हति, तज्ज्ञानं विना च शाब्दबोधोऽपि नास्ति, तदा तेषां वाक्ये ईश्वरीयतात्पर्यज्ञानमेव कारणत्वेन कल्पनीयम् । तेषां विसंवादिवाक्ये = निष्फलप्रवृत्तिजनकमिथ्योच्चारणे तु ईश्वरेच्छाया विसंवादित्वाभावात् शिक्षयितुरेव पुरुषस्य तात्पर्यज्ञानं हेतुरिति समस्तप्रघट्टार्थः । अत्र नैयायिकैकदेशिमतमाह-'अन्ये त्वि'ति । नानार्थादौ = ' सैन्धवमानय ' इत्यादौ मीमांसा = लाघवज्ञानात्मकस्तर्कः । 'परिशोधिते'ति-सहकृतेत्यर्थः । तर्कोऽत्रानुमानम् ।'आहु' रित्यस्वरसः सूचितः एतद्वीजन्तु-गृहीतनानार्थकवृत्तिकपदजन्यानुभवत्वापेक्षया लाघ. वेन पदजन्यानुभवत्वस्यैव तात्पर्यज्ञानजन्यतावच्छेदकत्वमुचितमिति दिक् । इति श्रीपण्डितदेवीदासतनुजनुषा सतीविष्णुदेवीगर्भजेन श्री जैनन्यायविशारद-कवितार्किक -दर्शनाचार्य नृसिंहदेवशास्त्रिणा विरचितायां सिद्धान्तमुक्तावल्या: 'प्रभा' ख्यायां व्या ख्यायां तुरीयं शब्दखण्डं समाप्तम् । समाप्ता च शब्दखण्डनाम्नी सप्तमी मुक्का। * आदिना विशेषणपरिग्रहः । तथाच 'सशङ्खचक्रोहरिः' इत्यत्र 'हरि' शब्दस्य कपीन्द्राघनेकार्थत्वात् हरिशब्देन कस्य ग्रहणमित्याकांक्षायां निर्णायकं सशङ्खचक्र इति विशेषणम् ।

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486