Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 394
________________ ३६६ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः। उपमन्ये त्यक्षमित्यर्थः समाधत्ते--"मनस" इति अत्यन्तं वेगशालि मनः, तथाच नानुपपत्ति नावधानभाजां नानाज्ञानोत्पादने इति भावः । ननु--युगपदनेकज्ञानोत्पत्तिस्वीकारे सिद्धान्तविरोध इत्याशङ्कयाह--"उत्पलशतपत्रभेदादि"ति । उत्पलम् कमलम् । तथा च भ्रान्तोऽसौ यौगपद्यप्रत्ययः, ज्ञानन्त्वेकस्मिन् काले एकमेवोत्पद्यत इति न सिद्धान्तविरोध इति भाव: । पुनः शङ्कते--"नचे"ति । “संकोचे"ति--मनसः शङ्कोचे एकेन्द्रियमानसम्बन्धादेकमेव ज्ञानम् , विकाशे तु नानेन्द्रियैर्मनसः सम्बन्धायुगपन्नानाज्ञानानामुत्पत्तिरिति भावः । समाधत्ते--"नानावयवे"ति--लाघवेन निर्वाहे सति निष्फलं गौरवं नादियत इति भावः । अधिकमन्यत्रोक्तमित्याह--- "सक्षेप" इति । इति द्रव्यपदार्थों व्याख्यातः । (का०) अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिाया गुणाः । (मु०) द्रव्यं निरूप्य गुणान्निरूपयति-गुणत्वजातौ किं मानमिति चेत्, इदम्-द्रव्यकर्मभिन्ने सामान्यवति या कारणता सा किंचिद्धर्मावच्छिन्ना निरवच्छिन्नकारणताया असंभवात् । नहि रूपत्वादिकं सत्ता वा तत्रावच्छेदिका न्यूनातिरिक्तदेशवृत्तित्वात् । अतश्चतुर्विंशत्यनुगतं किंचिद्वाच्यं तदेव गुणत्वमिति सिद्धम् । (प्र० टी० ) निरूपितं द्रव्यम्, सम्प्रति गुणनिरूपणावसर इत्याह-"द्रव्यमि"ति । "द्रव्यनिरूपणोत्तरकालीनद्रव्यनिरूपणसमानकर्तृकगुणकर्मनिरूपणानुकूलकृतिमान् ग्रन्थकार” इति शाब्दबोधः । “अथेति द्रव्यनिरूपणान्तर्यमाह । *'द्रव्याश्रितः' इति । द्रव्याश्रिता: द्रव्यमानाधाराः, निर्गुणाः गुणरहिताः, निष्क्रिया:-कर्महीनाश्च बोध्याः । द्रव्याश्रितत्वञ्च द्रव्यत्वव्यापकतावच्छेदकसत्तान्यजातिमत्त्वम् । निर्गुणत्वं सामान्यवत्वे कर्मान्यत्वे च सति गुणशून्यस्वम् । निष्कियत्वं समान्यवत्त्वे सति कर्मान्यत्वे सति कर्मवदवृत्तिपदार्थविभाजकोपाधिमविमिति सामान्यतो गुणस्य लक्षणत्रयं फलितमिति भावः । समष्ट्या एकं लक्षणन्तु -'सामान्यवत्त्वे सति कर्मान्यत्वे च सति निर्गुणत्वं गुणसामान्यलक्षण'मिति बोध्यम् , निर्गुणत्वमात्रोक्तो कर्मण्यतिव्याप्तिः तद्वारणाय "कर्मान्यत्व" इत्युक्तम् । तावन्मात्रोक्तावपि सामान्येऽतिव्याप्तिवारणाय “सामान्यवत्त्वे सती"त्युक्तम् । निर्गुणत्वानुक्तौ परिशिष्टोक्तौ द्रव्येऽतिव्याप्तिः स्यात् तद्वारणाय "निर्गुणत्व"मिति । द्रव्यत्वजाताविव गुणत्वजातौ मानं पृच्छति-"गुणत्वजाता"विति । एतेन "गुणत्वजातिसिद्धिरने वक्ष्यते” इति पूर्वोक्ता प्रतिज्ञापि पालिता भवतीति भावः । * परेपि 'द्रव्याश्रया निर्गुणा गुणा' ( तत्त्वार्थसूत्रम् ५॥४१ ) इति लक्षयन्ति। १

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486