Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 398
________________ ३७० सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः। गुणमन्य ( ५ । ४ । ३४ ) इत्यनेन स्वार्थे ठक् । “भावनान्यो" यो वायुवृत्तिस्पर्शवृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वनैमित्तिकद्रव्यत्वान्यगुणत्वमिति विशेषगुणत्वम् । केचित्तु विशेषगुणत्वं नाम "द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तिद्रव्यकर्माऽवृ. त्तिजातिमत्व” मिति लक्षयन्ति । तत्र द्रव्यस्य विभाजकमुपाधिद्वयम् पृथिवीत्वजलस्वादि, तत्समानाधिकरणः संयोगसङ्ख्यादिः, तत्रावृत्तिः अविद्यमाना तथा द्रव्यकर्मणोरप्यविद्यमाना या रूपादिकतिपयगुणेषु विद्यमाना जातिस्तादृशजातिमत्त्वं पूर्वोक्तविशेषगुणेष्वनुगतमित्याहुः । सर्वोऽयं कठिनो मार्ग: । वयन्तु-"विशेषो व्यवच्छेदः तस्मै प्रभवन्ति ये ते “वैशेषिकाः" गुणा रूपादयः । ते हि स्वाश्रयमितरस्माद्वयव च्छिन्दन्ति न तथा सङ्ख्यादयः तेषां स्वतोविशेषाभावात् , यस्तु तेषां विशेषः स माश्रयविशेषकृत एवेति' कन्दलीकारमार्गमेव रोचयामहे । ___ श्रीस्वामि विश्वेश्वराश्रमपादास्तु-विशेषगुणत्वञ्च, भावनाऽन्यो यो वायुवृत्तिस्पर्शावृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्त्वाजलद्रवत्वान्यगुणत्वम् , जात्यादावतिव्याप्तिवारणाय विशेष्यदलम् अन्यथा सामान्यत्वधर्मस्य भावनान्यत्वे सति वायुवृत्तिर्योऽनुष्णाशीतस्पर्शस्तदवृत्तित्वात्तत्समवायी सामान्य नास्तीति तदन्यत्त्वसत्त्वाद तिव्याप्तिः स्यात् सामान्यत्त्वस्योपाधित्वेन तत्समवायाप्रसिद्धयासामान्यं समवायिभिन्नमिति भावः। गुरुत्वाजलद्रवस्वान्यगुणत्वस्य संयोगादावपि सत्त्वादतिव्याप्तिः तद्वारणाय सत्यन्तं विशेषणदलम् , तथाच भावनान्यवायुवृत्तिस्पर्शावृत्तिधर्मः संयोगत्वन्तत्समवायित्वासंयोगस्य तदन्यत्वाभावानातिव्याप्तिः । गुरुत्वनैमित्तिकद्वत्वयोरतिव्याप्ति:, तयोरपि भावनान्यवायुवृत्तिस्पर्शावृत्तिर्योधर्मो गुरुत्वत्वनैमित्तिकद्रवत्वत्वरूपस्तत्समवा. यिभिन्नत्वे सतिगुणत्वस्यसत्त्वात् । गुरुत्वत्वऽनैमित्तिकद्रवत्त्वयोरप्युपाधिश्वेन तयो:सम वायाप्रसिद्धया समवायिभिन्नत्वमित्यतस्तत्रातिव्याप्तिवारणार्थ-गुरुत्त्वाजलद्रवत्वान्येति, अत्रापि सांसिद्धिकद्रवत्वेऽव्याप्तिवारणार्थम् अजलेतिपदम् । भावनान्यत्वानुपा दाने भावनायामव्यप्तिः वायुवृत्तिस्पर्शावृत्तियों धर्मो भावनात्वरूपस्तत्समवायित्वेन समवायिभिन्नत्त्वाभावात् । तदुपदानेच भावनात्वसमवायिन्याभावनाया भावनान्यस्वाभावान्नाव्याप्तिः, वायुवृत्तिस्पर्शावृत्तिबुद्धिवेच्छात्वादिधर्मसमवायिभिन्नत्वसत्वादि ति भाव: । स्पर्शावृत्तिपदानुपादाने स्पर्शेऽव्याप्तिः, वायुवृत्तिसत्तारूपधर्मसमवायित्वेनसमवायिभिन्नत्वाभावात् । तदुपादाने चसत्तारूपधर्मस्य स्पर्शावृत्तित्वाभावाद्बुद्धि वेछात्वादिरूपधर्ममादाय लक्षणसमन्वयः। स्पर्शच तादृशधर्मसमवायिभिन्नत्वसत्वादिति भावः । पृथिवीजलतेजस्सु वृत्तयो ये गन्धत्त्वरसत्त्वरूपत्वधर्मसमवायिनो गन्धरसरूपात्मकास्तेच समवायिभ्यो भिन्ना न सन्तीतितेष्वव्याप्तिरतो वायुवृत्तीति समवायि विशेषणम् नतु स्पर्शविशेषणमिति मेप्रतिभाति, “तथाच भावनान्ये ये वायुवृत्तयः स्पर्शावत्तिधर्मसमवायिन स्तेभ्योऽन्ये ये गुरुत्वाजलद्वत्त्वान्यगुणास्ते विशेषगुणाः । इत्यन्वयः । परन्तु भावानान्ये, इति धर्मसमवायिनः । इत्यत्र विशेषणम् । फलन्तु तस्य


Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486