________________
३५४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः।
[शब्दखण्डे
तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति ॥ शङ्कते-'नन्विति । यत्र-यादृशबोधे तात्पर्यविषये सतीत्यर्थः । इत्याद्युक्तम्इत्याद्यनेकविशेषणावाचकपदघटितवाक्यं प्रयुक्तमित्यर्थः । तत्र = तादृशशाब्दबोधान्य. वहित प्राक्क्षणे । उत्तरपदस्मरणेन = इति प्रत्ययान्तकुण्डलपदमरणेन । एवमग्रे. ऽग्रेऽपि लाप्यम् । शङ्काग्रन्थस्यायमभिसन्धिः-पूर्वपदेन सहोत्तरपदस्य व्यवधानं विना या उपस्थितिः सा शाब्दबोधे कारणमित्युक्तम् । परन्तु यद्वाक्यमनेकैः पदैर्घटितमस्ति यथा-"क्षत्री कुण्डली'त्यादि, तत्र अव्यवधानेन पदोपस्थितिर्न भवितुमर्हति "कुण्डली" ति पदमरणेन "छत्री"तिपदस्सरणस्य नष्टत्वात् तथाच-पूर्वत्र सप्तविंशतिकारिकाव्याख्यायां साधर्म्यवैधर्म्यप्रकरणे 'योग्यविभुविशेषगुणानां स्वोत्तरवर्त्तिगुणनाश्यत्वाद्" इत्युक्तम् । तदनेन नियमेन उत्तरपदीयस्मरणेन पूर्वपदीयस्मरणस्य नाशाभ्युपगमात्, अव्यवधानेन उत्तरपदीयस्मरणस्य सर्वथाऽसम्भव एवेति कथमुच्यतेऽव्यव धानेन पदोपस्थितिः कारणमिति ।
समाधत्ते-"इति चेन्न" इत्यादिना । प्रत्येक पदजन्येति-तत्पदविषयक प्रत्येकपदानुभवजन्यतत्तत्पदविषयकप्रत्येकसंस्कारित्यर्थः । चरमस्य प्रत्येकसंस्कारविषयसर्वपदानामुद्रोधकसमवधानानन्तरभूतस्य । तावत्पदेति-उबुद्धसंस्कारविषयीभूतानि यावन्ति पदानि तावत्पदविषयैकस्मरणस्येत्यर्थः । अव्यवधानेनोत्पत्तेः = व्यवधानं विनापि सम्भवात् “न तस्य हेतुत्वानुपपत्ति"रिति शेषः । एकत्तणावच्छेदेनोत्पत्तौ बाधकाभावादित्यर्थः। समाधानग्रन्थस्येदं रहस्यम्-यद्यप्येवं तत्तत्पदीयस्मरणव्यक्तीनां भेदः, उत्तरपदस्मरणेन पूर्वपदीयस्मरणनाशश्च, तथापि तत्तत्पदविषयकं समू. हालम्बनमेकमेव स्मरणं भवति, तत्र समूहालम्बनपदार्थस्मृतेश्च स्वत एव शाब्दबोध इति न शाब्दबोधप्रति अव्यवधानेन पदोपस्थितिरूपाया आसत्ते: कारणबाधः। एवञ्च छन्त्रीत्यादिबहुपदघटितवाक्ये प्रत्येकं यच्छत्रीत्यादिपदं, तत्तत्पदानुभवजन्या ये संस्कारा: तैः चरमस्य = अन्तिमस्य तावत्पदविषयकस्मरणस्य = समूहालम्बनरूपसकलपदार्थस्म रणस्य अन्यधानेन = व्यवधानं विनापि उत्पत्तेः सम्भवान्नैव दोष इति भावः । __ अत्रार्थे दृष्टान्तविधया युक्तिमाह-"नानासनिकषैरिति । यथा एकसिमेव काले घटचतु:संयोगपटचतुःसंयोगरूपो नानासन्निकर्षो जायते तत "इमौ घटपटौ स्त" इत्याकारकमेव प्रत्यक्ष भवति तथा नानासंस्कारैः = छत्र्यादिपदविषयकानेकसंस्कारैः, एकस्मरणोपपत्तेरपि सम्भवात् = समूहालम्बनात्मकरूपैकपदार्थस्मृतेरपि योग्यत्वादित्यर्थः । क्वचित् “चरमम्" इति “एकस्मरणोत्पत्ते" रिति च पाठान्तरम् ।। ___ तत्तत्पदविषयकसंस्कारस्य भिन्नविषयत्वरूपेऽशे कारणत्वेऽपि तत्तत्संस्कारजन्यस्मरण मेकमेव जायते। तथाच नोक्नकार्यकारणभावे बाधकभाव इति भावः । तावत्पदसंस्कारेति--समवायघटितसामानाधिकरण्यसम्बन्धेन संस्कारोपलासिततादृशचरमवर्णज्ञानन्यक्केरेव तद्व्यक्तित्वेनोद्बोधकत्वादित्यर्थः ।