________________
भासत्तिवपणम् ।
भ्रमत्वन्तु विषयाभावादेवेत्यवधेयम् । “न क्षति"रिति । प्रासतिभ्रमस्थले शाब्दप्रमानुत्पत्तिर्नेत्यर्थः।
(का०) कारणं सन्निधानं तु पदस्यासचिरुच्यते । (प्र० टी० ) श्रासत्ति लक्षयति-परममूले 'कारण' मिति। मूले विवृणोति'तत्र'ति।
यत्पदार्थेन यत्पदार्थनिष्ठविषयतानिरूपितयत्पदार्थनिष्ठविषयताशालिशाब्दबोध 'अन्वयोऽपेक्षित' इति । अन्वयः संसर्गः अपेक्षितः तात्पर्यविषयः । तयोः तादृशपदयोः । अव्यवधानेन अव्यवहितपूर्वत्वाऽव्यवहितोत्तरस्वान्यतरत्वे. नोपस्थितिरित्यर्थः। तादृशपदयोरव्यवधानमासत्तिस्तदुपस्थितिः कारणमित्यर्थः । तथा च गिरिपदार्थभुक्तपदार्थयोरन्वयो न तात्पर्यविषयः अपितु गिरिपदार्थाग्निमत्पदार्थयोरेवति तयोरव्यवधानाभावान्नातिव्याप्तिरिति भावः । एवञ्च-"अव्यवधानेन पदज. न्यपदार्थोपस्थितिरासत्ति' रित्युक्तं भवति । मानान्तरोपस्थापितपदार्थस्यान्वयबोधाभावात् पदजन्येति । अतएवाश्रुतपदार्थस्थले तत्तत्पदाध्याहारः। 'द्वार' मित्यादौ 'पिधेहि' इति पदाध्याहारः । वेदे 'इषे त्वा' इत्यादिमन्त्रे “छिनभि" इत्यादिपदाध्याहार इति सक्षेपः।
तेन = एतादृशयत्तस्पदगर्भासत्तिनिर्वचनेन । ननु 'नीलो घटः द्रव्यं पटः' इत्यत्र नीलपदार्थपटपदार्थयोर्यत्रान्वयो वक्तुस्तात्पर्यविषयो नतु नीलपदार्थघटपदार्थयोस्तत्र नीलपदघटपदयोरासत्तिर्न स्यात्, तत्तदर्थान्वयस्य तात्पर्यविषयत्वाभावात् अतस्तत्रेशपत्तिमाह-'नीलो घटः' इत्यादिना । 'भ्रमादिति-तथाच भ्रमाच्छाब्दबोधमात्रं नतु तत्रासत्तिरिति भावः । 'श्रासत्तिभ्रमादिति-पासत्तिभ्रमस्य न शाब्दभ्रमप्रयोज. कत्वं किन्तु योग्यताभ्रमस्येति भावः ।
(मु०) ननु यत्र छत्री कुण्डली वासस्वी देवदत्त इत्याद्युक्तं तत्रोत्त. रपदस्मरणेन पूर्वपदस्मरणस्य नाशादव्यवधानेन तदुत्तरपदस्मरणासंभव इति चेन्न, प्रत्येकपदानुभावजन्यसंस्कारैश्चरमस्य तावत्पदविषयकस्मरणस्याव्यवधानेनोत्पत्तेः । नानासंनिकषैरेकप्रत्यक्षस्येव नानासंस्कारैरेकस्मरणोत्पत्तेरपि संभवात् । तावत्पदसंस्कारसहितचरमवर्णज्ञानस्योद्बोधकत्वात् । कथमन्यथा नानावणैरेकपदस्मरणम् ॥ परंतु तावत्पदार्थानां स्मरणादेकदैव खले कपोतन्यायेन तावत्पदार्थानां क्रियाकर्मभावेनान्वयबोधरूपः शाब्दबोधो भवतीति केचित् ।
वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत्पतन्ति । * यथा न्यायनये भासत्तिभ्रमेण शाम्दबोधः प्रमारूपो जायते एवमेवाविद्यकशब्दादि. नापि ब्रह्मात्मैक्यसाक्षात्कारः 'प्रमा' रूपो भवितुमईतीति न किञ्चिदद्वैतवादेऽपि दुष्यति ।