________________
३५२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दखण्डे
पूर्वपदार्थप्रधानतया चान्वयबोध इति । इत्थं च समासे न कापि शक्तिः पदशक्त्यैव निर्वाहादिति ॥
(प्र० टी० ) ॐ अव्ययीभावस्थले लक्षणां दर्शयति-"उपकुम्भमि"ति । कुम्भस्य समीपमित्यस्वपदविग्रहः समास: । अव्ययीभावस्य नित्यसमासत्वात् । अविग्रहोऽस्वपदविग्रहो वा नित्यसमासः । “अव्ययं विभक्तिसमीप०-(२।१।६) इति सूत्रेण समासः, । "अर्धपिप्पली" इत्यत्र तु—“अर्ध नपुंसकम्" ( २ । २ । २) इति सूत्रेण समासः । समांशवाच्यर्धशब्दो नित्यं क्लीबे, सचावयवा. वाचिना समस्यते । “अर्ध पिप्पल्या" इति विग्रहः । “परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः" ( २ । ४ । ६ ) इति परवलिल्लङ्गस्वास्त्रीत्वम् । भाष्ये तु-"अधं पिप्पली" इति कर्मधारये उनम् । “समुदाये दृष्टाः शब्दा अवयवेष्वपि वर्तन्ते" इति न्यायात् । परपदे - कुम्भपिप्पल्यादिपदे । तत्सम्बन्धिनि = कुम्भपिप्पल्यादिसम्बन्धिनि । "पूर्वपदार्थे"ति । उपादिपदार्थेत्यर्थः । “अन्वयबोध" इति-तथाच 'कुम्भसम्ब. न्ध्यभिन्नं समीपम्" "पिप्पलीसम्बन्ध्यभिन्नमर्द्धम्" इत्याकारक: पूर्वपदार्थप्रधानतया शाब्दबोध इत्यर्थः । प्रकरणमुपसंहरति-इत्थञ्चेति । वैयाकरणमतं दूषयतुमेवाहइत्थश्चेति । “पदशक्त्यैवेति । समासघटकीभूतपदशक्किलक्षणाभ्यामित्यर्थः ।
(का०) आसत्तिर्योग्यताकाङ्क्षातात्पर्यज्ञानमिष्यते ॥२॥
(मु०) प्रासत्तिरित्यादि । आसत्तिज्ञानं योग्यताशानमाकानाज्ञानं तात्पर्यज्ञानं च शाब्दबोधे कारणम् । यत्पदार्थस्यान्वयोऽपेक्षितस्तयो. रव्यवधानेनोपस्थितिः शाब्दबोधे कारणम् । तेन गिरि क्लमग्निमान्देवदत्तेन इत्यादौ न शाब्दबोधः। “नीलो घटो द्रव्यं पटः” इत्यादावासत्तिभ्रमाच्छाब्दबोधः । आसत्तिभ्रमाच्छाब्दभ्रमाभावेऽपि न क्षतिः ।
(प्र० टी०) शाब्दबोधे सहकारिकारणमाह-"प्रासत्तिरि"त्यादि ।
अत्रेदमवधार्यम् - प्रासत्तिर्योग्यताकाङ्क्षेति मूलदर्शनादासत्तेः स्वरूपसत्या एवं कारणत्वम् नतु योग्यताज्ञानादिवदासत्तिज्ञानस्यापि, ज्ञानपदस्य समासघटकत्वेन समासाऽघटकासत्तिपदार्थेनानन्वयात्, परन्तु तादृश्या आसत्ते "गिरिभुवमग्निमान्देव. दत्तेन" इत्यादौ गिरिपदाग्निमत्पदयोरव्यवधानभ्रमेण शाब्दबोधोदयेन व्यभिचारान्मूलस्थमासत्तिपदमासत्तिज्ञानपरतया व्याचष्टे-"प्रासत्तिज्ञान"मिति । स्वरूपत श्राका
सादीनां शाब्दबोधहेतुत्वे श्राकाङ्क्षादिरहितवाक्ये आकाङ्क्षादिभ्रमाच्छाब्दबोधो न स्यादतो भ्रमप्रमासाधारणं तज्ञानमेव हेतुरित्येवं विवृणोति मूले प्रासत्तिरित्यादिना। तथाच-सामग्र्या भ्रमत्वे शाब्दबोधस्य भ्रमत्वं न सम्भवति । शाब्दबोधस्य
* नियमतः पूर्वपदार्थविशेष्यकबोधजनकसमासत्वमव्ययीभावत्वम् । अब्राह्मणोऽपिप्पलीत्यादिवारणाय "नियमत इति ।