________________
लक्षणाप्रपञ्चः।
(प्र० टी० ) सरूपैकशेषस्थल इव कर्मधारस्थलेऽपि लक्षणाया अनुपयोगमाह"कर्मधारयस्थल" इति । न लक्षणा तत्पुरुषबहुव्रीह्योरिव पूर्वोत्तरपदयोर्न निरूढलक्षणा। समासप्रयुक्तादृशलक्षणाया अनङ्गीकारेऽपि अभिमतशाब्दबोधनिर्वाहादिति भावः । शिष्टान्यक्षराणि स्पष्टानि । अत एव-कर्मधारयस्थले लक्षणानङ्गीकारादेव । “निषादस्थपति"मिति । अत्र न तत्पुरुषो नापि बहुव्रीहिरित्यर्थः । लक्षणापत्तेः पूर्वोत्तरपदयोर्निरूढलक्षणापत्तेः।
अयं भावः- "वास्तुमयं रौद्रं चरुं निर्वपेत्” इति प्रकृत्य श्रूयते "एतया निषादस्थपतिं याजयेत्” इति । उक्ने श्रुतिवाक्ये "निषादानां स्थपति"रिति षष्ठीतत्पुरुषसमास: "निषादश्वासौ स्थपति"रिति वा कर्मधारयः स्यात् ? तत्र किमाश्रयणीयमिति संशयः । तत्पुरुष एवेति युक्तमाभाति । कुतः ? एतस्यामिष्टावधिकारी स्थपतिशब्दवाच्यस्त्रैवर्णिक: निषादानां स्थपति: अधिपतिरिति षष्ठीसमासस्य त्रैवर्णिके सम्भवात् तस्य चाधीतवेदत्वेन विद्यासम्भवाञ्चेति चेत् ? मैवम्-"निषादश्चासौ स्थपतिश्च" इति कर्मधारयसमास्य मुख्यत्वेन शनिवृत्यैव निर्वाहकत्वेन सङ्करजातिविशेषस्यैवाधिकारबोधनात् । षष्ठीसमासाश्रयणे तु जातिविशेषवाचिना निषादशब्देन तत्सम्बन्ध उपलक्ष्येत ( लक्षणया नीयेत) नत्वयं कर्मधारये दोषोऽस्ति । शनिवृत्त्यैवार्थनिर्वाहे जघन्यवृत्तिर्नाश्रयणीया । अतस्तात्कालिकाचार्योपदेशादिना विद्यां सम्पद्य धनिको निषादो रौद्रयागं कुर्यात् । एतच* "निषादः स्याच्छब्दसामर्थ्याद" (जै० सू० ६।१।५१-५२) इत्यत्र निर्णीत । प्रपञ्चस्तु शाबरभाष्यशास्त्रदीपिकादाववगन्तव्य इति सर्वं हृदि कृत्वा पाह-"किंतु कर्मधारय" दति। .. शङ्कते-"नच"ति । सङ्करजातीयत्वेन-संव्यवहायसङ्करत्वेनेत्यर्थः । प्राञ्च
स्तु-असंन्यवहार्यसङ्कराणां चण्डालानामसम्भाष्यत्वादिति भाव इत्याहुः । याजनाऽसम्भवः-पुरोहितस्येति शेषः । “वेदानधिकादि"ति । अपशूद्राधिकरणे पूर्वोत्तरमीमांसायां तथैव निर्णीतत्वादिति भावः । समाधत्ते-"निषादस्ये"ति । विद्याप्रयुक्त दर्शितरौष्टिकल्पोपयोगिवेदविद्याध्ययनस्य प्राप्तेरित्यर्थः। “तत एवे" ति-श्रतिबोधितयाजनानुपपत्यैवेत्यर्थः। ननु-निषादस्य विद्याकल्पेन गौरवमत पाह"लाघवेने"ति । कर्मधारयसमासमाश्रित्य प्रथमं मुख्यार्थेन अन्वयः तदुत्तरं तदनुपपत्तिकल्पनया विद्याकल्पनमिति फलमुखं गौरवं न दोषहेतुरिति भावः । निषादादीनां यागोपयोग्यध्ययनेतराध्ययननिषेधः शूद्रान्तरस्य तु अध्ययनमात्रनिषेध इति विवेकः ।
(मु०) उपकुम्भमर्धपिप्पलीत्यादौ परपदे तत्सम्बन्धिनि लक्षणा ___* जैमिनिसूत्रार्थस्तु-यः स्थपतिः स एव निषादः स्यात् शब्दसामर्थ्यात्= शब्दनिष्ठमुख्य वृत्तिसामर्थ्यात् । इत उत्तरं "लिङ्गदर्शनात्" इत्यपरं सूत्रम् । लिङ्गमत्र "कूटं दक्षिणा" इति । कूटं लोहमुद्गर इत्युच्यते, तदावश्यकता प्रायो निषादानामेवास्तीत्यतोऽपि कर्मधारयाङ्गीकारेण निषादस्यात्रैवर्णिकस्याप्यधिकार इति बोध्यमिति कश्चित् ।