________________
३५०
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[शब्दरखडे
कत्वाभावे कथं समाहारसज्ञेत्यत आह - समाहारसझे"ति । यत्र-यादृशद्वन्द्वे । स्पष्टमन्यत् । “तत्रैवे"ति-तथाच *पारिभाषिक्येव सा सज्ञा । ननु-तादृशसञ्ज्ञायाः किं फलं यदि समुदायो न समाहारार्थ इत्यत अाह-अन्यत्र'ति । अन्यत्रसमाहारातिरिक्तद्वन्द्वे एकवचनमसाधु-एकवचनं न साध्वित्येव तत्सज्ञाफलमिति एकवचनान्तत्वं नपुंसकत्वमिति यावदिति भावः । “पितरौ" इति । “चैत्रस्य पितरा" वित्यादौ विरूपैकशेषस्थल इत्यर्थः । “लक्षणे"ति-एकस्यैव चैत्रादेः पितृद्वयासम्भवेन तन विरूपैकशेषं विना गत्यभावादिति भावः । “श्वशुरा"विति-- स्त्रीजनकदम्पत्योर्बोधतात्पर्येणोच्चारिते श्वशुराविति वाक्य इत्यर्थः । यथाश्रुते तु द्विभार्यस्यैव तथा बोधे मूलग्रन्थविरोधापत्तेः । केचित्तु-विरूपैकशेषस्थलेऽपि लुप्तमात्रादिपदस्मरणेनैव शाब्दबोधान्न लक्षणेत्याहुः । “एवमन्यत्रापी"ति-"पुमान् स्त्रिया" (पाणि० १ । २ । ६३ ) इत्येन यत्रैकशेषः तत्र । दम्पतीपूजाप्रकरणे "ब्राह्मणावानय' इत्यादौ "शिवौ नमस्कुर्यादि" त्यादौ च । अर्थात् ब्राह्मणीब्राह्मणो. भयबोधतात्पर्येणोच्चारित 'ब्राह्मणा' विति वाक्यघटपब्राह्मणपदे एवं शिवा शिवो. भयबोधतात्पर्येणोच्चारिते “शिवा” विति वाक्यघटकशिवपदे च । भ्रातरौ पुत्रावित्यत्रापि प्रमाणान्तरेण स्त्रीपरत्वज्ञाने "भ्रातृपुत्री स्वसृदुहितृभ्याम्" ( पाणि १।२।६८ ) इतिविरूपैकशेषाद् भ्रातृपदे भ्रातृस्वस्रोः पुत्रपदे च पुत्रदुहित्रोर्लक्षणेत्यर्थः । "घटा" इत्यादा विति-बहुवचनान्तघटादिपदे इत्यर्थः । समानरूपैकशेषे न लक्षणा-नैव लक्षणया नाना घटोपस्थितिः किन्तु घटत्वेन मुख्येन रूपेणैवोपस्थिति सम्भवे जघन्यवृत्तिकल्पनमन्याय्यमिति भावः।।
(मु० ) कर्मधारयस्थले तु नीलोत्पलमित्यादावभेदसम्बन्धेन नीलपदार्थ उत्पल पदार्थे प्रकारः । तत्र च न लक्षणा । अत एव निषादस्थपति याजयेदित्यत्र न तत्पुरुषो लक्षणापत्तेः। किन्तु कर्मधारयो लक्षणाभावात् । न च निषादस्य सङ्करजातिविशेषस्य वेदानधिकाराद्या. जनासम्भव इति वाच्यं, निषादस्य विद्याप्रयुक्तेस्तत एव कल्पनात् । लाघवेन मुख्यार्थस्यान्वये तदनुपपत्त्या कल्पनायाः फलमुखगौरवतया. ऽदोषत्वादिति ॥ * शास्त्रसङ्केतसिद्धत्यर्थः ।
क्रमिक यन्नामयुगमेकार्थेऽन्यार्थबोधकम् ।
तादात्म्येन भवेदेष समासः कर्मधारयः ॥ (शब्दशक्ति.)
क्रमिकं यन्नामद्वयं तयोरेकस्य नाम्नोऽर्थे धर्मिणि तादात्म्येनापरनाम्नोऽर्थस्यान्वयबोध प्रति समर्थ तादृशनामद्वयं कर्मधारयः । “नीलोत्पलम्' इत्यादी उत्पलादिपदार्थे नीलादिपदार्थस्य तादात्म्येनान्वयः तस्मादयं कर्मधारयः । कचित्तु-तत्पुरुषत्वे सति समस्यमानपदार्थऽभेदबोधक विग्रहकत्वे कर्मधारयत्वम् । बहुव्रीहिवारणाय सत्यन्तम् । “राजपुरुष" इत्यादितत्पुरुष वारणायं विशेष्यदलमित्याहुः । वयन्तु फले विशेषं न पश्यामः ।