________________
लक्षणाप्रपञ्चः।
दावपि बोध्यम् । बहुव्रीहौ यथा उत्तरपदे लक्षणा तथा समाहारद्वन्द्वेऽप्युत्तरपदस्य लक्षणेति भाव इत्याशयेनाह-'अहिनकुलसमाहारे लक्षणे"ति । अत्र प्राचीना प्रभा-"इदन्तु प्राचीनकदेशिमते । वैयाकरणमते उनार्थे समाहारद्वन्द्वेऽस्य शक्निरि - त्यपि ध्येयम् ।
पूर्वपदलक्षणां परिकल्प्य उत्तरपदस्य तात्पर्यग्राहकत्वे तु "प्रकृत्यान्वितस्वार्थबोधकरवं प्रत्ययानाम्" इति व्युत्पत्तिविरोधापत्तेः, उत्तरपदस्यैव लक्षणायुक्रेत्यभिप्रायेण पूर्वपदन्वित्युक्त"मिति ।
शङ्कते-"नचे"ति । भेरी च मृदङ्गश्च भेरीमृदङ्गम् । अत्र-“द्वन्द्वश्वप्राणितूर्यसेनाङ्गानाम्" (पाणि० २।।।२) इति सूत्रेण समासः । उक्तरीत्या मृदङ्गपदस्य भेरीमृदङ्गसमाहारे लक्षणा भेरीपदञ्च तात्पर्यग्राहकम् । समाहारस्तु भनेकैकत्वविषयकापेक्षाबुद्धिविशेषरूपः । अभिघाताख्यसंयोगावच्छिन्ना क्रिया च वादनपदार्थः तत्कथं बुद्धिविशेषस्य वादनक्रियया सहान्वयः स्याद् यदि तत्पदस्य समाहारे लक्षणा स्याद् ? इतिशङ्काग्रन्थार्थः । समाधत्ते-“परम्परासम्बन्धेने"ति । “स्वाश्रयवृत्तित्व" रूपपरम्परासम्बन्धद्वारा वादनक्रियायाः समाहारेऽन्वयसम्भव इति नायुक्तमित्यर्थः । प्रत्र "स्व" पदेन अपेक्षाबुद्धिविशेषरूपसमाहारस्य ग्रहणम् । तस्याश्रयो विषयतासम्बन्धेन भरी मृदङ्गादि । तवृत्तित्वं वादनक्रियाया अस्तीति समाधानग्रन्थार्थः । तदन्वयात्-वादनक्रियाया अन्वयात् । उनं लक्षणानियम द्विग्वर्थसमाहारस्थलेप्यतिदिशति-"एव" मिति । यथा--"अहिनकुलमित्यादावुत्तरपदलक्षणा तथा * पन्चमूलीत्यादावपि उत्तरपदस्यैव पञ्चमूलसमाहारे लक्षणा, पञ्चदन्तु तात्पर्यग्राहक मित्यर्थः। कचित् “पञ्चपूली"ति पाठः ।।
(मु०) परे तु अहिनकुलमित्यादौ अहिर्नकुलश्च बुध्यते प्रत्येकमेकत्वान्वयः, समाहारसंज्ञा च यत्रैकत्वं नपुंसकत्वं च प्राणितूर्येत्यादि. सूत्रेणोक्तं तत्रैव, अन्यत्रैकवचनमसाध्वित्याहुः । पितरौ श्वशुरावित्यादौ पितृपदे जनकदम्पत्योः श्वशुरपदे स्त्रीजनकदम्पत्योर्लक्षणा । एवमन्यत्रापि। घटा इत्यादौ तु न लक्षणा, घटत्वेन रूपेण नानाघटोपस्थितिसम्भवात् ।
(प्र० टी०) अत्रैव नवीनमतमाह-परेत्वि'ति । “बुध्यत" इति । तथाच नात्र समाहारस्य बोधः न “प्रत्येकमि"ति । एकवचनबोधिताया एकत्वसङ्ख्याया अहौ नकुले च पृथक् पृथगन्वयः। तथाच नेदं समाहारोदाहरणम् । एकवचनञ्च साधुप्रयोगार्थम् । तथाच-समाहारस्याननुभवात् प्रयोजनाभावाच्च समाहारस्थले समाहारे लक्षणाभ्युपगमो व्यर्थ इति भावः । ननु--"पाणिपाद" मित्यादौ समुदायस्य समाहारबोध
___ * ‘पञ्चमूली'ति । अत्र "तद्धितार्थोत्तरपदसमाहारे च” (२।१।५१) इति सूत्रेण समासः । “सङ्ख्यापूर्वो द्विगुः" (२१११५२ ) इत्यनेन द्विगुसज्ञा । "अकारान्तरो. तरपदो द्विगुः स्त्रियामिष्टः" (वा• २।४।१७) इत्यनुशासनेन स्त्रीलिङ्गत्वञ्च ।