________________
३४८ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः। [शब्दखण्डे उक्तवाक्यघटकोक्लपदे-पुरोहितश्च पुरोहितश्च पुरोहितो, राज्ञः पुरोहितौ राजपुरोहितो इति षष्ठीतत्पुरुषसमासः अथवा राजा च पुरोहितश्च राजपुरोहितौ इति द्वन्द्वो वेति सन्दिह्य तत्पुरुषपक्षे लक्षणापत्तिभिया द्वन्द्व श्राश्रितः । स्वपक्षमुपसंहरतितस्मादिति । साहित्यस्याननुभवादित्यर्थः । साहित्यं नार्थः द्वन्द्वस्थले साहित्यावच्छिन्ने लक्षणाने त्यर्थः । साहित्यं न कस्यापि पदस्यार्थः किन्तु द्वित्वं, तत्र न लक्षणेत्युक्तम् । यत्र वास्तवो भेदस्तत्रैवाय समास इति भावः । अधिकमन्यतो. ऽवसेयम् ।
(मु०) नच नीलघटयोरभेद इत्यादौ कथमिति वाच्यं, तत्र नीलपदस्य नीलत्वे घटपदस्य घटत्वे लक्षणा, अभेद इत्यस्य चाश्रयाभेद इत्यर्थात् । समाहारद्वन्द्वे तु यदि समाहारोऽप्यनुभूयत इत्युच्यते तदाऽहिनकुलमित्यादौ परपदेऽहेनकुलसमाहारे लक्षणा पूर्वपदं तु तात्पर्यग्राहकम् । नच भेरीमृदङ्गं वादयेत्यत्र कथं समाहारस्यान्वयः, अपेक्षाबुद्धिविशेषरूपस्य तस्य वादनासम्भवादिति वाच्यं, परम्परासम्बन्धेन तदन्वयात् । एवं पञ्चमूलीत्यादावपि।
(प्र० टी. ) उभयपदार्थभेदसत्त्व एव द्वन्द्वसमास इति नियममसहमानः शङ्कते-"नचे"ति । श्रादिना "शरीरेन्द्रियविषया" इत्यादेः परिग्रहः । नील घट.. योरभेदः एतद्वाक्यघटकनीलघटपदयोरित्यर्थः । कथमिति-कथं द्वन्द्वावयवत्वं, तादृशपदद्वयघटितद्वन्द्वः कथमित्यर्थः । समाधानमाह-तत्रेति । नीलघटयोरिति समासे अभेदः वाक्यस्येति शेषः। आश्रयाभेदः-एकव्यक्रिसमवेतत्वमित्यर्थः । इत्यर्थादितिवाक्यप्रयोक्तृतात्पर्यविषयार्थत्वादित्यर्थः । तथाच प्रकृतवाक्यघटकाऽभेदशब्दस्यैकव्यक्तिसमवेतत्वे लक्षणेति भावः ।।
अस्यायमाशय:-"नीलो घट" इत्यत्र वाक्ये " नीलघटयोरभेद " इति बोधो भवति । तत्रोक्तवाक्ये “ नीलश्च घटश्च नीलघटौ तयोर्नीलघटयोरभेद " इत्यत्र भेदो नास्ति । अस्ति च इतरेतरयोगो द्वन्द्वः तत्कथमुच्यते यत्र वास्तवो भेदस्तत्र द्वन्द्व इति । समाधत्ते-"तो"ति । नपत्र नीलघटयोर्वास्तविकभेदविवक्षायां द्वन्द्वः किन्तु नीलपदस्य नीलत्वे घटपदस्य च घटत्वे लक्षणां स्वीकृत्य तयोरभेद इत्यत्राश्रयाभेदः, अर्थात् "नीलत्वघटत्वयोराश्रयाभेद" इति वाक्यार्थ इष्टः ।
समाहारद्वन्द्वे व्यवस्थां दर्शयति-"समाहारद्वन्द्व" इति । “समाहारः-- परस्परानन्वितार्थकानेकपदघटितैकवचनान्तसमासत्वरूप: समाहारद्वन्द्वसमासः तत्रेत्यर्थः । “अहिनकुल" मिति-अत्र-“ येषाञ्चविरोधः शाश्वतिकः " ( पाणि० २।४ । १) इति सूत्रेण समासः । एवञ्चाहिनकुलामित्यत्र परपदे अहिनकुलसमाहारे लक्षणा । पूर्वपदम् अहिपदम् । एवं "पाणिपाद" मित्या.
* इदं चिन्त्यम् , उभयोराश्रयभेदसत्त्वादिति सूक्ष्मदृशेक्ष्यम् ।