________________
लक्षणाप्रपञ्चः।
तथाचात्रापि प्रत्ययार्थभूतसम्बन्धद्वारैव राजपुरुषयोरन्वयानोक्न व्युत्पत्तिविरोध इति शङ्कापक्षः । शङ्काकर्तुराशयस्तु लुप्तषष्ठयर्थः स्वत्वं, तत्र राजपदार्थान्बयः स्वत्वस्य पुरुषेऽन्वयः। एवञ्च "राजनिरूपितस्वत्ववान् पुरुष" इति वाक्यार्थः । “अस्मृतविभक्ते रिति-प्रकृतिप्रत्ययानभिज्ञस्यापि पुरुषस्य " राजपुरुष" इत्यादितस्तथाविधशाब्दबोधदर्शनानोक्नं युक्तमिति सिद्धान्तः । स्वपक्षमुपसंहरति-"तस्मादि"ति । व्याख्यातप्रायमन्यत् ।। ___(मु० ) द्वन्द्वे तु-धवखदिरौ छिन्धीत्यादौ धवः खदिरश्च विभक्त्यर्थद्वित्वप्रकारण बुध्यते । तत्र न ललणा । नच साहित्ये लक्षणेति वाच्य, साहित्यशून्ययोरपि द्वन्द्वदर्शनात् । नचैकक्रियान्वयिस्वरूपं साहित्यमस्तीति वाच्यं, क्रियाभेदेऽपि धवखदिरौ पश्य छिन्धीत्यादौ तदर्शनात्साहित्यस्याननुभवाच्च । अत एव राजपुरोहितो सायुज्यकामौ यजेयातामित्यत्र लक्षणाभावाद् द्वन्द्व श्राश्रीयते तस्मासाहित्यं नार्थः किंतु वास्तवभेदो यत्र तत्र द्वन्द्वः॥
(प्र. टी.) इतरेतरद्वन्द्वसमासे लक्षणावादिनो मीमांसकमतं कटाक्षयनाह"द्वन्द्वेत्वि"ति । परस्पराऽनन्वितार्थकानेकपदघाटेतसमासत्वं द्वन्द्वत्वम् । द्विवचनाद्यन्ततादृशसमासत्वमितरेतरद्वन्द्वत्वम् -इत्येवलक्षणके इतरेतरद्वन्द्वसमासे । "धवखदिरौ छिन्धि" इत्यादौ धवः खदिरश्च विभक्तयर्थद्वित्वप्रकारेण-विभक्तयों यद् द्वित्वम्, तत्प्रकारेण धवखदिरयोरुभयोर्बोध इति तत्र लक्षणाया नावश्यकता । मीमांसकः शङ्कते-"नचे"ति । साहित्य-धवे खदिरे चोभयस्मिन् वर्तमानो यः सहवृत्तित्वरूपो धर्मःसाहित्याख्यः तदाश्रये लक्षणा स्यादिति शङ्काग्रन्थार्थः । समाधत्ते-साहित्यशून्ययो"रिति । हिमश्च विन्ध्यश्च "हिमविन्ध्या" वित्यत्र सर्वथा सहवृत्तित्वरूपसाहित्यशून्ययोरपि इतरेतरद्वन्द्वसमासदर्शनारसाहित्ये लक्षणाश्रयणम. युक्रमिति सिद्धान्तप्रन्थार्थः ।।
ननु-धवखदिरावित्यन्त्र छेदनरूपैकक्रियाम्वयिस्वात्मकं साहित्यमस्ति तस्मा. त्तादृशसाहित्याश्रये खदिरपदस्य लक्षणा स्यात् नतु तथा हिमविन्ध्यावित्यत्रेत्याशङ्कयाह-'नचे' ति* । क्रियाभेदेऽपि-एकजातीयक्रियाराहिस्मेऽपि । यथाधवखदिराविति । इत्यादिदर्शनात् इत्यादिवाक्यघटकद्वन्द्वावयवत्वानुभवादित्यर्थः । नहीतरेतरद्वन्द्वयोगात्मके समासे एकक्रियान्वयित्वरूपसाहित्यस्य नियम इति भावः । स्पष्टमन्यत् । अत्रैव गमकमाह-"श्रत एवे"ति । इतरेतरद्वन्दे साहित्यस्याननुभवादेव । राजपुरोहिताविति-एतादृशश्रुतिघटकराजपुरोहिताविति समासे । लक्षणाभावात्लक्षणानभ्युपगमात् । द्वन्द्व पाश्रीयते-द्वन्द्वसमासोऽङ्गीक्रियते । अत्रायमाशयः
* एका या छेदनक्रिया तदन्वयित्वरूपं साहित्यं “धवखदिरौ बिन्धि " इत्यत्राप्यस्तीति भावः।