________________
३४६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः।
[शब्दखण्डे
वि"ति । अवधारणार्थकस्तुशब्दो भिन्नक्रमः पूर्वपद इत्यस्योत्तरं पठनीयः । तेन पूर्वपद एव लक्षणा = निरूढलक्षणेत्यर्थः सम्पद्यते । यथा पूर्वपदे लक्षणा तथा सनियमं वक्तुमाह-"तथाही"ति । राज्ञः पुरुषः "राजपुरुष" इत्यत्र षष्ठीतत्पुरुष. समासे राजपदार्थेन सह पुरुषपदार्थस्य न साक्षादन्वयः = प्रकृत्यर्थमद्वारीकृत्य भेदसम्बन्धेन अन्वयो नास्ति । कुत इत्याह-"निपात"ति। नामार्थश्च नामार्थश्च नामार्थो तयो र्नामार्थयोरिति । “अव्ययनिपातातिरिक्लनामार्थयोर्भेदसम्बन्धेन नान्वय" इति व्युत्पत्तेरर्थः । प्रकृते च भेदे षष्ठी तत्कथं लक्षणां विना निर्वाहः स्यादिति भावः । अन्यथा यद्येवं न स्वीक्रियते तदा " राजा पुरुष " इत्यत्रापि "राजभिन्नः पुरुषः' "राजनिरूपितस्वत्ववान् पुरुषः' इत्यर्थको भेदसम्बन्धेनान्वयः स्यात् , सच सर्वेषामेवानिष्ट इति भावः । एवञ्च प्रकृते राजपदस्य राजसम्बन्धिनि लक्षणां कृत्वा "राजसम्बन्ध्यभिन्नः पुरुष" इत्याकारको बोधो नेतव्यः । वैयाकरणास्तु-" भेदः संसर्ग उभयञ्चेति वाक्यव्यवस्थितेः" इति वृत्तिभेदं निरूपयन्तौ भेदपते-राजपुरुष इत्यादौ " अराजकीयभिन्नः पुरुषः” संसर्गपक्षे–“ राजसम्बन्धवान् पुरुषः” उभयपक्षे'अराजकीयभिन्नो राजसम्बन्धवांश्च पुरुष” इति बोध इत्याहुः । उक्तव्युत्पत्तेः पदकृत्यं दर्शयति-"घटोने"ति । नञः-नजान्योन्याभावस्य । “घटो न पट" इत्यत्र घटपटाभ्यां सह नजर्थान्योन्याभावस्य साक्षादेवान्वयो नतु मध्ये यस्य कस्यापि प्रत्ययस्यार्थ द्वारीकृत्य अतो निपातातिरिक्वेत्युवम् । नजो निपातत्वात् । परमत्रास्य योगोऽपि भेदसम्बन्धेनैवान्वयो नत्वभेदेन । किञ्च-निपातातिरिक्रनामार्थयोर्भेदसम्बन्धेनान्वयो नार्हति भवितुम् , कुतः “नीलो घट” इत्यादी नामार्थयोरभेदेनान्वयदर्शनात् नियमशरीरे भेदेनेत्युक्तम् अर्थात् निपातातिरिक्तनामार्थयोरभेदेनान्वयस्तु सिद्ध एव किन्तु भेदसम्बन्धेनान्वयोऽव्युत्पन्नः ततश्च “ राजपुरुष” इत्यादावपि निपातातिरिक्तनामार्थयोरुपस्थितिस्तु जायत एव, एवमत्रापि भेदेनान्वयबोधो न भविष्यति, इष्टश्चासौ भेदेन, नत्वभेदेन विवक्षितः । तस्मादत्र पूर्वपदे राजपदस्य राजसम्बन्धिनि लक्षणैवोपायान्तरं मृग्यम् । यति. (मु०) न च राजपुरुष इत्यादौ लुप्तविभक्तेः स्मरणं कल्प्यमिति वाच्यम्, अस्मृतविभक्तेरपि ततो बोधोदयात् । तस्माद्राजपदादौ राजसम्बन्धिनि लक्षणा । तस्य च पुरुषेण सहाभेदान्वयः।
(प्र० टी०) आशङ्कय समाधत्ते-"नचे"त्यादिना । लुप्तविभक्तेः="सुपो धातुप्रातिपदिकयोः” (२।४।७१) इतिपाणिनिसूत्रेणेति शेषः। “स्मरणं कल्प्य"मितिविशिष्टस्यैव पुरुषपदार्थस्य भेदान्वयबोधधम्प्रति यः समासः स्वरूपयोग्य: अर्थबोधोपयोगी स एव तदर्थस्य राजपदार्थस्य तदर्थे पुरुषपदार्थे तत्पुरुष: षष्ठीतत्पुरुष इति लक्षणयोजना ।
परेतु-"समासप्रयुक्तलक्षणाशून्योत्तरनामपदकत्वे सति लुप्तद्वितीयादिविभक्तिकपूर्वपदकसमासत्वं तत्पुरुषत्वम्" इत्याहुः । प्रपञ्चस्तु-समासवादादिषु द्रष्टव्यः ।