________________
लक्षणाप्रपञ्चः।
(प्र० टी० ) A "बहुव्रीहावि"ति-बहुव्रीहिसमासस्थलेऽपि वाक्यैकदेशे पद एव लक्षणेति बोध्यम् । एतद् घटयति-"तत्र हि" इति ।
अयमाशयः-B “चित्रा गावो यस्ये"ति बहुव्रीहिः । तदत्र ययेकदेशे गोपदार्थेऽन्वयस्वीकारः तदा गोपदं गोस्वामिनं लक्षयति । चित्रापदार्थस्य गोपदार्थेन सहाभेदान्वयः । “चित्राऽभिन्ना या गाव" इति बोधः । यद्येवं न तदा गोपदस्य चित्रगोस्वामिन्येव लक्षणा चित्रापदं पूर्ववत्तात्पर्यग्राहकं मन्यताम् । “गोपदं चित्रगोस्वामिविषयकबोधजनकं भवत्वि"ति वक्तुस्तात्पर्यमित्यर्थः । बोधस्तु-"चित्राभिन्नगोवृत्तिस्वत्वप्रतियोगी चैत्र" इति ज्ञेयः । “एवमि"ति-"प्रारूढो वानरो यमसावा. रूढवानर" इत्यत्रापि पूर्वैव दिगनुसरण येति भावः । एवं सर्वत्र बहुव्रीहिसमासे उत्तरपदे लक्षणा पूर्वपदञ्च तात्पर्यग्राहकं बोध्यमित्याशयेनाह -"एवमन्यत्रापी"ति ।
___ अत्रेदमवधार्यम्-पारुहेरूद्ध देशावच्छिन्नसंयोगानुकूला क्रियाऽर्थः । कस्याश्रयो द्वितीयायाश्चाधेयत्वमर्थः । तथाच-"वृक्षवृत्त्युपरिदेशावच्छिन्नसंयोगानुकूलक्रियाश्रयो वानर" इत्यन्वयधीः। "प्रारूढवानर" इति समासे तु-"प्रारोहणकर्त्तवानरसम्बन्धी वृक्ष" इत्यन्वयधीः। स्वकर्तृकारोहणकर्मत्वं सम्बन्धः । “बहुव्रीहिसमासे विग्रहवाक्याद् यादृशविशेषणविशेष्यभावापनार्थबोधो भवति समासवाक्यात्तद्विपरीतविशेषणविशेष्यभावापनार्थबोध" इति नियमोऽपि न विस्मर्त्तव्यः। . __(मु० ) तत्पुरुषे तु पूर्वपदे लक्षणा । तथाहि-राजपुरुषादिपदे राजपदार्थेन पुरुषादिपदार्थस्य साक्षान्नान्वयो निपातातिरिक्रनामार्थयोर्भेदेनान्वयबोधस्याव्युत्पन्नत्वात् । अन्यथा राजा पुरुष इत्यत्रापि तथान्वयबोधः स्यात् । “घटो न पटः" इत्यादौ घटपटाभ्यां नञः साक्षादेवा• न्वयान्निपातातिरिक्तति । “नीलो घट" इत्यादौ नामार्थयोरभेदसम्बन्धेनान्वयाऽदेनेति । (प्र० टी० ) तत्पुरुषसमासेऽपि लक्षणाप्रकारं दर्शयितुमाह-"तत्पुरुषे.
A बहुव्रीहिः स्वगर्भार्थसम्बधित्वेन बोधकः।
निरूढया लक्षणया स्वांशज्ञापकशब्दवान् ॥ इत्युक्तेः । "स्वकर्मकारोएकतवानरसम्बन्धी वृक्ष" इत्यर्थः । मधिकं शब्दशक्तिप्रकाशिकायाम् । “नियमतः समासप्रयुक्तलाक्षणिकोत्तरपदकसमासो बहुबोहि"रिति तल्लवणं योध्यम। B "चित्राऽभिन्ना गावः चैत्रादिस्वत्वाश्रय" इति विग्रहवाक्याबोधः ।
* यदीयेन सुवर्थेन युतयद्वोभाधनक्षमः ।
__यः समासस्तस्य तत्र स तत्पुरुष उच्यते ॥ (शब्दश०) यदर्थगतेन सुवर्थेन विशिष्टस्य यदर्थस्यान्वयबोधं प्रति यः समासः स्वरूपयोग्यः स तदर्थस्य तदर्थे तत्पुरुष इत्यर्थः । यथा “राजपुरुष" इत्यत्र राजपदार्थगतेन सम्बधिरूपषष्ठयथेन