________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्रावल्याः ।
[ शब्दखण्डे
/
I
समाधातुर्नैयायिकस्येदं हृदयम् - " गम्भीरायां नद्यां घेोष " इत्यत्र केवलं नदीपदस्यैव नदीतीरे लक्षणा गम्भीरापदार्थस्य च नद्या ( पदार्थभूतया ) सहाभेदान्वय अर्थात् * " गम्भीराऽभिन्न नदीतीरे घोष" इति वाक्यार्थ बांधे सति क्वचित्पदार्थैकदेशेन सहाय्यन्वयबोधः स्वीक्रियते । यथा “चैत्रस्य गुरुकुलम्" इत्यादौ । अत्र चैत्रोत्तरवर्त्तिषष्ठयर्थ सम्बन्धस्य गुरुरूपेण पदार्थैकदेशेन ध्यन्वयस्वीकारात् । तथाच - " चैत्रसम्बधिनो गुरोः कुल” मिति बोधः । वस्तुतस्तु - चैत्रपदोत्तरवर्त्तिन्याः षष्ट्या निरूपितत्वमर्थः । तस्य गुरुपदार्थैकदेशे गुरुत्वेऽन्वयः । तथा च – चैत्रनिरूपितं यद्गुरुत्वं, तद्वत्सम्बन्धिकुलमिति बोध: । अन्यथा — गुरुपदार्थेन सहान्वयस्वीकारे चैत्रपुत्रतात्पर्येणापि चैत्रस्य गुरुकुलम्” इति प्रयोग: स्यात् । चैत्रपुत्रस्यापि स्वशिष्यस्य गुरुत्वात् चैत्रेणापि जन्यजनकभावसम्भवाच्च । चैत्रसम्बन्धिनो गुरोः ( चैत्रपुत्रस्य ) कुलमिति बोधसम्भवात् । उक्तरीत्या अन्वयस्वीकारे तु - चैत्रनिरूपितगुरुत्वस्य चैत्रपुत्रे गुराव - भावान्न चैत्रपुत्रतात्पर्येण तादृशप्रयोग इति ध्येयमिति दारोडस्वामिविश्वेश्वराश्रमाः। एवञ्च पदलक्षणानिर्वाहे सति मुधावाक्यलक्षणायामादरः । एतेनैवाशयेनाह - " स्वीकृतत्वात् " इति । पदभेदेन व्युत्पत्तिभेदात् प्रकृते तथाविधव्युत्पत्तिकल्पनमन्याय्यमिति भावः । । श्रस्तु वा तत्रैकदेशान्वयानङ्गीकार इति कल्पान्तरमाह"यदि तत्रे "ति । " गभीरायां नद्याम्" इत्यत्र । एकदशेति - दर्शितरीत्या एकदेशान्वयो न स्वीक्रियते = स्वीकत्तुं न शक्यत इत्यर्थः । तदेति - " तात्पर्य - ग्राहक " मिति - "नदीपदं गभीरनदीतीरविषयक बोधजनकं भवतु " इत्याकारकवक्त्रिच्छारूपतात्पर्य ग्राहकमित्यर्थः । इति स्वीकार्यमिति शेषः ।
३४४
( मु० ) बहुव्रीहावप्येवम् । तत्र हि चित्रगुपदादौ यद्येकदेशान्वयः स्वीक्रियते तदा गोपदस्य गोस्वामिनि लक्षणा गवि चित्राभेदान्वयः । यदि त्वेकदेशान्वयो न स्वीक्रियते तदा गोपदस्य चित्रगोस्वामिनि लक्षणा चित्रपदं तात्पर्यग्राहकम् ॥ एवमारूढवानरो वृक्ष इत्यत्र वानरपदस्य वानरारोहण कर्मणि लक्षणा, श्रारूढपदं तात्पर्यग्राहकम् । एवमन्यत्रापि बोध्यम् ॥
* गम्भीराऽभिन्ना या नदी तत्तीरे घोष इत्यर्थः ।
+ नच विनिगमनाविरहेण गम्भीरपदस्य लक्षणा नदीपदं तात्पर्य ग्राहकमित्यस्यापि वक्तुं शक्यत्वात् कथं नदीपदमात्रे लक्षणाभिधानमिति वाच्यम् " प्रत्ययानां प्रकृत्यर्थान्वित. स्वार्थबोधकत्वव्युत्पत्तेः” उत्तरपद एव लक्षणाया उक्तत्वादित्याद्यधिकमन्यत्र । यस्मात् प्रत्ययो विधीयते सा प्रकृतिः, तदर्थेन भन्वितो यः स्वार्थः कर्मत्वादिरूपः तद्बोधकतेति नियमशरीरस्यार्थः । प्रत्ययाश्च विभक्तिकृत्तद्धिताख्याताः ।