________________
लक्षणाप्रपञ्चः।
(मु०) वाक्ये तु शक्लेरभावाच्छक्यसम्बन्धरूपा लक्षणाऽपिनास्ति । यत्र " गम्भीरायां नद्यां घोष " इत्युक्तं तत्र नदीपदस्य नदीतीरे लक्षणा । गम्भीरापदार्थस्य नद्या सहाभेदेनान्वयः क्वचिदेकदेशान्वयस्यापि स्वीकृतत्वात् । यदि तत्रैकदेशान्वयोऽपि न स्वीक्रियते तदा नदीपदस्य गम्भी. रनदीतीरे लक्षणा गम्भीरापदं तात्पर्य ग्राहकम् ।
(प्र० टी० ) ननु-शक्यसम्बन्धो न लक्षणा तथासति वाक्ये शकेरभावाच्छक्याप्रसिद्ध्या लक्षणा न स्यादिति मीमांसकाक्षेपं परिहर्तुमिष्टापत्ति दर्शयति"वाक्येत्वि"ति। अवधारणार्थकस्तुशब्दः शक्लेरभावादित्युत्तरं योजनीयः । शनयभा. वादेवेत्यर्थः । शक्यसम्बन्धरूपा लक्षणापीति-वाक्यशक्वेरप्रसिद्धया शक्यसम्बन्धरूपाया लक्षणाप्यप्रसिद्धेत्याशयः।
___ ननु -- यदि वाक्ये न लक्षणा कथं तर्हि " गभीरायां नद्यां घोष " इत्यादौ वाक्यार्थबोधनिर्वाहः । अर्थात् नदीपदस्य नदीतीरे लक्षणास्वीकारे गभीरपदार्थस्यैकदेशान्वयापत्त्या पदलक्षणाया असम्भवः तेन वाक्येपि साऽवश्यमभ्युपेया इत्यत श्राह" यत्र गम्भीरायामि " ति । " यत्र तु" इति तुस्तकेषु पाठः । इत्युक्तमिति । इति वाक्यं प्रयुक्तमित्यर्थः । तत्र नदीपदस्य-तादृशवाक्यघटकनदीपदस्यापीत्यर्थः । नदीतीरे = नदीसम्बन्धिनि तीरे, लक्षणा = अजहल्लक्षणा, गम्भीरपदार्थस्य = गाम्भीर्यविशिष्टस्य । नद्या सह = नदीतीरपदार्थैकदेशभूतनद्या सह अभेदेनान्वयः= सामानाधिकरण्येनान्वयः, वाक्यार्थबोध इत्यर्थः । नन्वेचं " पदार्थः पदार्थेनान्वेति नतु पदार्थकदेशेन" इति व्युत्पत्तिभङ्गःस्याद् अत पाह-"क्वचिदेकदेशान्वयस्यापी" ति प्रकृते नदीतीरस्यैकदेशो नदी, तेनान्वय इत्यर्थः । : अत्राक्षेप्तुर्मीमांसकस्यायमाशयः- " पदार्थःपदार्थेनान्वेति नतु पदाथैकदेशेन" इति नियमः । यथा-" नीलो घट" इत्यत्र नीलपदार्थस्य घटपदार्थैकदेशेन घटत्वेन नान्वयः, किन्तु घटत्वजात्याकृतिविशिष्टव्यसि रूपेण पुष्कलपदार्थेनैव। एवं प्रकृतेऽपि न नर्द तीरैकदेशेन नदीपदार्थेन सह, किन्तु नदीतीरेण सहान्वयः । ततश्च नात्र नदीपदे लक्षणा किन्तु पदसमुदायभूते वाक्य एवेति । धेयत्वादेरन्वय शोधप्रविष्टत्वादिति चेन्न प्रकृत्यावच्छिन्नस्यैव प्रत्ययार्थस्य भय॑न्तरेऽन्वयबुद्धेर्युत्ग. नतया ताराबविशेषितस्य सुवर्थाधेयत्वादेघोषादावन्वयबोधायोगात्. नच शक्तस्यैव पदस्य स्वसाकाङ्क्षापदान्तरोपस्थाप्यान्वितस्वार्थधर्मिकान्वयबोधं प्रति हेतुत्वादन्वयबुद्धौ लक्ष्यार्थस्याप्रवेशः । “ कुन्ताः प्रविशन्ति " इत्यादी लक्ष्यस्य कुन्तधरादेरन्वयविशेष्यत्वानुपपत्तेः । “ कुमतिः पशु" रित्यादौ लक्ष्यार्थयोमियोऽन्वयवोधस्याप्यानुभाविकत्वाच्च । तस्माच्छतेरिव मक्तेरपि ज्ञानमानुभावकं भवत्येव कार्यतावच्छेदकस्य सङ्कोचान व्यभिचार इति शब्दशक्तिप्रकाशिका।